________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षमा भगवादः !
परिचायकान्तरमाह । व्युत्पत्ते: करणमिति । यस्य निज तत इति सम्बयते । यस्य पुरुषस्य सर्गादौ अनितेषु निखिलशरीरिषु निजं शब्दशक्रिग्रहकरणानवरुद्धं व्युत्पत्तेः शब्दशक्तियहस्य करणं सम्पादन मिति योजना। भगवानेव हि केवलः प्रयोज्यप्रयोजकदे हमाश्रित्य मर्गादौ उत्पन्नान् प्राणिनो गवादिपदानां भक्तिं ग्राहयति नान्य इति भावः । परिचायकान्तरमाह । हिताहितेति। यस्य निज तत इति सम्बयते । यव्य पुरुषस्य सर्गादौ मनितेषु निखिल शरौरिषु हिताहितविधियाधसम्भावनामिति योजना । निजं खेतरस्य तादृशसम्भावनानवरुद्धं हितविधिः दृष्टमाधनयागादेः कर्तव्यता अस्तिव्यासेधः अनिष्टसाधनस्य कलञ्चभक्षणादेरकर्तव्यता तयोः सम्भावनं ज्ञापनम् । परिचायकास्तरमाह। भूतोकिरिति । यथेति सम्बयते । बस पुरुषस्य श्रुत्यादिरूपो फिर्भूता यथार्थत्यर्थः। यथार्थत्वे(१) मानमाह । सहजेति। यतः सहजा स्वाभाविको भ्रमादिदोक्यतुष्टय(२)रहितेत्यर्थः । केचित्तु यस्य भूतोक्तिः प्रसिद्धार्थको क्रिः सहजा प्रमाणरूपा । न तु कार्यान्वितश क्रिवाधु प्रेताप्रामाण्यवतीत्यर्थ इत्याहुः । परिचायकान्तरमाह । कृपा निरुपधिरिति । यस्येति सम्बध्यते । यस्य पुरुषस्थ कृपा परदुःखप्रहाणेच्छा निरुपधिः खेष्टमाधनताप्रतिमन्धामाजन्या । निरवधिरिति पाठे यस्य परदुःखप्रहाणेच्छारूपा कृपा निरवधिः अवधिः मौमा तच्छन्या परकीयसकलदुःखाभाव(३)(१) याथार्थ-पा० २ पु० । (२) भ्रमादिचतुण्यदोषरहितेत्यर्थः -- पा० २ पु० । (३) निखिलदुःखाभाव - पा. २ पु ।
For Private and Personal Use Only