________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटोके
ॐ नमः परमात्मने । कुञ्चिताधरपुटेन पूरयन् वंशिकां प्रचलदङ्गुलिपतिः । मोहयन्नखिलवामलोचनाः पात कोऽपि नवनौरदच्छविः ॥
श्रीमता मथुरानायतर्कवागौशधीमता ।
बौदाधिकारविवृतिर्विशदौकत्य रयते ॥ निर्विघ्नं(१) प्रारिप्सितग्रन्थममाप्तिकामनया कृतं भगवन्नमस्काररूपं मङ्गलं शिष्यशिक्षायै श्रादौ निबध्नाति । वाम्यमित्यादिना । तस्मै नम इति सम्बन्धः । किम्भूताय तस्मै पूर्वगुरूत्तमाय पूर्वगुरुभ्यो मनुकपिलकमलामनादिभ्य उत्तमाय उत्साष्टाय । उत्कर्षश्च तेषामपि श्राराध्यत्वपूर्ववर्तित्वादिरूपः । पुनः कीदृशाय जगतामोशाय जगतां निखिलारीरिणाम् ईशाय जननानुकूलचिच्छक्रिमते। पुनः कौशाय जगतां निखिलशरीरिणां पिचे जनकाय जननानुकूलकृतिशक्तिविशिष्टाय । तस्मै कम्मै इत्याकाङ्क्षायामाह । स्वाम्य - मित्यादि । यस्य पुरुषस्य आदौ मर्गादौ जनितेषु जगत्मु निखिल गरौरिषु निजं स्वाम्यमिति योजना । निजं स्खेतरस्य स्वाम्यानवरुद्धं निजशब्दस्य यस्यैवेत्यवधारणार्थत्वात् । स्वाम्यं स्वामित्वं जगत्खित्यत्र निरूपकत्वं सप्तम्यर्थः स्वत्वं वा स्वाम्यं सप्तम्यर्थश्चाधेयत्वम् । केचित्तु निजं क्रयाद्यनपेक्षमित्याहुः । तदात् मर्गादौ जनितेवित्यस्याव्यावर्तकतापत्तेः । अन्यदपि परिचायकमाह । ततः पालनमिति । यस्य पुरुषस्य निजमिति सम्बह्यते । निजं स्खेतरपालनानवरुद्धं ततस्तेषु मर्गादावुत्पादितेषु जगत्सु पालनं रक्षणम् ।
(१) निर्विघ्नेन - पा० २ पु० ।
For Private and Personal Use Only