________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
पिताहमस्य जगत इति । पूर्वगुरुभ्यः कपिलकमलासनादिभ्य उत्तमाय तेषामपि स एव जनक इति भावः । तस्मै कमै इत्यपेक्षायामाह । स्वाम्यं यस्येत्यादि। श्रादौ सर्गादौ जनितेषु उत्पादितेषु जगत्म यस्य निजं क्रयाद्यनपेचं खाम्यम् श्रात्मनामुत्यत्त्यभावे ऽपि विशेषणस्य शरीरस्य तथात्वादिशिष्टस्य तथा व्यपदेशः । अपूर्वशरौरादिसम्बन्धरूपं तु जन्म न मुख्यो जन्यर्थः । न वा तावतापि स्वाम्यनिर्वाहः । पालनं रक्षणादि । व्यत्पत्तिः शब्दशक्रेतग्रहः । हितस्य विधिः कर्तव्यता । अहितस्य निषेधोऽकर्तव्यत्वम् । तयोः सम्भावनं ज्ञापनम् । उनिः श्रुत्यादिरूपा। भूता यथार्था । सहजा स्वाभाविको। रागद्वेषधमादिविरहेण सर्वस्या एव तदुक्कयथार्थत्वात् । ताद्रप्येणैव तस्य सिद्धेः । कृपा परहितेच्छा । उपधिः खहितानुसन्धानं तच्छ्न्या नित्यत्वात् । निरवधिरितिपाठे अवधिः सीमा तच्छ्रन्या । नित्यत्वेन सर्वपुरुषोयसकलहितविषयकत्वात् । तदर्थात्मकः तज्जन्माधुनिपर्यन्तम् अर्थः प्रयोजनं यस्य स एव श्रात्मा स्वरूपं यस्य स तथा ॥
मथुरानाथतर्कवागीशकता(१)
आत्मतत्त्वविवेकरहस्याख्या टोका। (१) व्यनेनैव मथरानाथतर्कवागौशेन तत्त्वचिन्तामणिटोका रहस्याख्या तत्त्वचिन्तामणिदौधितितत्त्वचिन्तामण्यालोकयोठोके रहस्याख्ये किरणावलोटौका किरणावलीप्रकाशटोका किरणावलीप्रकाशविरतिटीकापि रहस्याख्येव न्यायलीलावतौटौका च निर्मितेति भूमिकायां निरूपयिष्यामि।
For Private and Personal Use Only