________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटीक
फलमाह । यत्नः प्रवृत्तिः फलमित्यर्थः । तदर्थात्मकः तद्धितमहितहानं चार्थः प्रयोजनं यस्य तद्रूप इत्यर्थः ॥
तार्किकशिरोमणिरघुनाथकृता) श्रात्मतत्त्वविवेकदौधित्याख्या टीका ।
श्रीगणेशाय नमः । ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ निर्णय सारं शास्त्राणां तार्किकाणां शिरोमणिः ।
आत्मतत्त्वविवेकस्य भावमुद्भावयत्ययम् ॥ शिष्टाचारपरम्परापरिप्राप्ताभिमतकर्मारम्भसमयकर्तव्यताकं कृतमिष्टदेवतानमस्कारं शिव्यान् शिक्षयितमादौ निबध्नाति । स्वाम्यमित्यादिना । ईशाय माझ्यादिशालिने नमः । श्रयते हि यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः तस्मादेतहह्म नामरूपमन्नं च जायते । सर्वज्ञ इति सामान्यतः सर्वविदिति च विशेषतः ब्रह्म हिरण्यगर्भाख्यम् । स्मर्यते च ।
सर्वज्ञता बप्तिरनादिबोधः खतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशनिश्च विभोविधिज्ञाः षडाहरङ्गानि महेश्वरस्य ॥ इति। जगतां निखिलशरीरिणां पित्रे जनकाय । तथा च स्मर्यते (१) धनेनैव तार्किकशिरोमणिरघुनाथेन तत्त्वचिन्तामणिदीधितिः किरणावलीप्रकाशविरतिः न्यायलीलावतीविभूतिः पदार्थतत्त्वनिरूपणं खण्डनखण्डखाद्यटीका सर्वदर्शनसंग्रहश्च विरचित इति सविस्तरं भूमिकायां निरूपयिष्यामौति ।
For Private and Personal Use Only