________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
श्राह । ततः पालनम् जगत्म यस्येति सर्वत्रान्वीयते। दृष्टानियसाधनोपदेशेन जगद्यः पातीत्यर्थः । तथाप्युपदेशस्य शब्दरूपत्वात् तस्य चाग्टहीतसङ्केतत्वेनाबोधकत्वात् तद्ग्राहकव्यवहारादेव सम्भव इत्यत आह । व्युत्पत्तेरिति । व्युत्पाद्यव्युत्पादकतापनानां कायमधिष्ठाय व्यवहारेण शब्दार्थयोः सङ्केतरूपज्ञानात्मिकाया व्युत्पत्तेः करणं जगत्सु यस्येत्यर्थः । ननु तावता पदार्थमात्र शक्रिग्रहे वर्गसाधनवादौ वाक्यार्थ तदभावान यागहिंसादौ प्रवृत्तिनिवृत्तौ इत्यत आह । हितेति । क्रमेण हिताहितविधिव्यासेधयोः सम्भावनं ज्ञापनम् । पदार्थव्युत्पत्तेरेव विधायकनिषेधकवाक्या दियानिष्टसाधनतां प्रमाय प्रवृत्त्यादिरित्यर्थः । तदुपायमाह । उतिः श्रुतिरूपा यस्येत्यर्थः । ननु तत्प्रामाण्याग्रहे ततोपि कथं क्लेशसाध्ये प्रवृत्तिरित्यत आह । भूता वाक्यार्थयथार्थज्ञानजन्या । तत्र मानमाह । महजा धर्मियाहकमानसिद्धा प्राप्तत्वेनैव तमिद्धेरित्यर्थः । ननु तथापि चेतनप्रवृत्तिः प्रयोजनज्ञानं विना न युका सुखस्य धर्माभावेनासम्भवात् । दुःखाभावस्य चाधर्माभावेन स्वतः सिद्धृत्वा दित्यत आह । कृपेति । कारुणिकानां परदुःखहानार्थमेव प्रवृत्तिरित्यर्थः । निरुपधिः उपधिः कारणं तच्च न्येत्यर्थः । अन्येषां हि कारुणिकानां परकीयसुखदुःखज्ञानात् सुखदुःखे उत्पद्यते इति स्खेष्टसाधनताज्ञानं कृपाहेतुः दयं तु तदपि नापेक्षत इत्यर्थः । अत एव निरुपधिपरदुःखप्रहाणेच्छा कृपा तत्र निरूपधित्वं व्यर्थं विशेषणमित्यपास्तम् । क्वचिनिरवधिरिति पाठः । तत्र पूर्वोत्तरावधिशून्या । अनुत्पन्ना अविनाशिनीत्यर्थः सुगमः । ज्ञापन
For Private and Personal Use Only