SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8 www.kobatirth.org यात्मतत्त्वविवेके सटीक Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः शिवाय । दृप्तदेत्येन्द्रदुर्भेदवचस्तट कपाटभित् । वेदान्तमार सर्वस्वं नृसिंहः पातु पापनुत् ॥ मनममोक्षहेतुत्वबोधकवेदप्रामाण्यग्रहौपयिकं भगवद्रूपं निर्दिशनेव तन्नतिं विघ्नविघातफलां निबध्नाति । स्वाम्यमिति । इशाय कार्यजातजनक सर्वविषयकज्ञानाय नमः । नन्वात्मत्वाविशेषात् कथमस्मदादीनां म नमस्य इत्यत श्राह । जगतामिति । जगतां संसारिणाम् । पित्रे जनकाय । पित्रे नमस्कार उचित एव । नन्वौश्वरस्य शरीराद्यभावे पितृत्वासम्भवान्मन्वादीनामेव तत्त्वमित्यत श्राह । पूर्वेति । पूर्वगुरू मातापितरौ यद्वा पूर्वे गुरवो मन्वादयः तेभ्य उत्तमाय तैरपि स्वशरीराद्युत्पत्तये तदपेक्षणात् । शरीरजन्यजननाय तस्यापि शरीरपरिग्रहादित्यर्थः । नमस्यतौपयिकं रूपान्तरमाह । स्वाम्यमिति । यतो जगतां पिता तो जगत्सु संसारिषु यस्य निजमसाधारणं क्रयाद्यनपेचं वा स्वाम्यं यथेष्ट - विनियोगयोग्यत्वम् । तत् कुत इत्यत श्राह । जनितेषु येन यज्जन्यते तत्र तस्य स्वत्वादित्यर्थः । एतेनेश्वरसाधकं जन्यत्वं मानं सूचितम् । नन्वस्मदादीनामेव तज्ञ्जनकत्वमास्तामित्यत श्राह । आदौ कार्यद्रव्यानाधारे सर्गादौ शरीराभावादस्मदादीनां तज्जनकत्वं न सम्भवतीत्यर्थः । नन्वीश्वरस्य प्राणिसृष्टावेव व्यापारात् तेषां कथं जौवनं स्तनपानादौनां तृप्तिसाधनतानुमानाभावेन तचाप्रवृत्तेः कथं वा तेषामनिष्टसाधनान्निवृत्तिः तदपरिचयादित्यत For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy