________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
त्यर्थः । सत्यत्वे मानमाह । महजेति। धर्मिग्राहकमानादाप्तत्वेनेव सिद्धेः तथा च भ्रमप्रमादविप्रतिमा विरहात् तदुक्रिः सत्येति भावः। ननु खप्रयोजनाभावात् कथं हिताहिते उपदिशदित्यत पाह । कृपेति । निस्पधिरेव परदुःखप्रहाणेच्छास्येत्यर्थः । ननु सापि परं दुःखिनं दृष्ट्वा स्वस्मिन् दुःखोत्पत्तेर्भवति न हौश्वरस्य दुःखमत शाह । निरुपधिरिति । अन्यथामिद्धिशङ्कारहितेत्यर्थः । यद्दा अनौपाधिकीत्यर्थः । उपधिः कारणं तच्च नित्यत्वादेव नास्तौति स्वाभाव्यादेव तथेति भावः(१) । न च तर्हि सुखिनमेव मवें सजेदिति देश्यम् । अदृष्टमापेक्षत्वात् । यत्नस्तदर्थात्मकः तस्याः कृपायाः अर्थः परदुःखप्रहाणं तदात्मको यत्नः । यदा तदर्थो जगत्प्रयोजनं तदेवात्मा यस्य यत्नस्येत्यर्थः । यद्दा तत्पदेन हिताहितप्रवृत्तिनिवृत्ती उच्यते ते अर्थः प्रयोजनं यस्य तदात्मकस्तट्रप इत्यर्थः । अत्र सर्वत्र यस्येत्यावर्तनीयम् ॥
__ भगीरथठक्करकृता(२)
धात्मतत्त्वविवेकप्रकाशिकाख्या टोका(२) । (१) तथेत्यर्थः - पा. २ । ३ पु० । (२) यस्यैव भगीरथठक्करस्य मेघठाकुर इति जलद इति च नामान्तरम् । अनेन द्रव्यप्रकाशिकेति गुणप्रकाशिकेति चाख्यया प्रसिद्धा किरणावलोप्रकाशटीका लीलावतीप्रकाशप्रकाशिकेति चाख्यया प्रसिद्धा लीलावतीप्रकाशटीका कुसुमाञ्जलिप्रकाशजलद इत्याख्यया प्रसिद्धा कुसुमाञ्जलिप्रकाशटीका चापि रचितेति सर्व सविस्तरं भूमिकायां निरूपयिष्यामौति । (३) इमामेव टीका जलदनाना केचिद्यवहरन्ति ।
For Private and Personal Use Only