________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्मतत्त्वविवेके सटोके
प्रारिशितस्य निर्विघ्नं समाप्तिमुद्दिश्य कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति । स्वाम्यमिति । तस्मै सर्वजनप्रसिद्धाय । जगतामौशाय जगज्जनना नुकूलकृतिशक्रिमते नमः । वेदप्रामाण्यग्रहौपयिकमाप्रत्वं (१) दर्शयितुं पितत्वेन तं रूपयति । पित्र इति । श्रविप्रलम्भकायेत्यर्थः । पूर्वगुरूत्तमाय पूर्वगुरवो मनुकपिलादयस्तेभ्य उत्तमायेत्यर्थः । तथा चेश्वर एव वेदवक्ता तदनु स्मर्तारः परं मन्वादय इति भावः । रूपकस्योपमाभेदत्वेन तनिर्वाहाय पितृसाम्यमाह । स्वाम्यमिति । पितुरपि जनितेषु स्वाम्यमीशस्यापि तथैव तेषु यथेष्टविनियोगाधिकार दूत्यर्थः । निजमिति । स्वाभाविकमित्यर्थः । श्रादौ जनितेष्विति सम्बन्धः । तथा च जनकस्यापि जनकत्वमीश्वरस्य ध्वनितम्। श्रन्यदपि पितृसाम्यमाह । ततः पालनमिति । हितोपदेशतदाचरणादिना रचणमित्यर्थः । श्रन्यदपि पितृसाम्यमाह । व्युत्पत्तेरिति । यथा पिता श्रध्यापनादिना पुत्रान् व्युत्पादयति तथेश्वरोऽपि प्रयोज्य प्रयोजक देहभेदमाश्रित्य प्राणिनो गवादिपदजाते पटादिनिर्माणे च व्युत्पादयतीत्यर्थः । साम्यान्तरमाह । हिताहितेति । हिताहितयोः हितविध्यहितव्या सेधयोः सम्भावनं प्रापणं ज्ञापनमिति यावत् । हितविधिः स्वर्गकामो यजेतेत्यादिः । अहितव्यासेधो न कलनं भचयेदित्यादिः । तदुभयमुपदिश्य ज्ञापयति । ननु कथमत्र विश्वास इत्यत श्राह । भूतोक्तिरिति । यथा पितुः पुत्त्रान् प्रति विधिनिषेधयोः प्रत्योक्तिस्तथेश्वरस्थापी(२) घाडगुण्यमिति पाठे तु
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्ति विभोर्विधिज्ञा षडारङ्गानि महेश्वरस्य ॥
For Private and Personal Use Only