________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमः परमात्मने ।
आत्मतत्त्वविवेकः।
श्रीमदुदयनाचार्यविरचितः । श्रीशङ्करमिश्रादिप्रणीतषविधटौकासहितः ।
स्वाम्यं यस्य निजं जगत्सु जनितेषादौ ततः पालनं व्युत्पत्तेः करणं हिताहितविधिव्यासेधसम्भावनम् । भूतोक्तिः सहजा कृपा निरुपधिर्यत्नस्तदर्थात्मकस्तस्मै पूर्वगुरूत्तमाय जगतामौशाय पित्रे नमः ॥
| মক্কৰ নিৰিবিনা(২) श्रात्मतत्त्वविवेककल्पलताख्या टौका ।
श्रीगणेशाय नमः । संभारपटकुविन्दं जगदण्डकलशकुलालमीशानम् । सर्गप्रलयसितासितकुसुमस्रङ्मालिनं वन्दे ॥
(१) शङ्करमिश्रेणास्यामेव टौकायामग्रे “वादिविनोदे स्फुटम् ' "धनुमानमयखे लीलावतीकण्ठाभरणे च दर्शित"मित्युक्तत्वादेते ऽपि ग्रन्था अनेनैव रचिताः। एवं वैशेषिकसूत्रोपस्कारः कणादरहस्याख्यं प्रशस्तपादभाष्यच्छायाव्याख्यानं खण्डनखण्डखाद्यव्याख्यानं च विरचितमित्यादि सनिस्तरं भूमिकायां निरूपयिष्यामौति ।
For Private and Personal Use Only