________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेक सटीक
विषयिणौति यावत् । न तु यत्किञ्चित्पुरुषस्य तद्विषयिणी रागद्वेषरहितत्वादिति भावः। परिचायकान्तरमाह। यत्नस्तदर्थात्मक इति । यस्येति सम्बद्ध्यते । यस्य पुरुषस्थ थत्नः तदर्थात्मकः । जगत्सु उत्पत्तिपालनव्युत्पत्त्यादिजनक इत्यर्थः। तत् जगदुत्पत्त्याधुक्तिपर्यन्तम् अर्थः प्रयोजनं यस्य स एवात्मा स्वरूपं यस्य स तथा इति व्युत्पत्तेः ॥ __ इह खल निसर्गप्रतिकूलस्वभावं सर्वजनसंवेदनसिद्धं दःखं जिहासवः सर्व एव तहानोपायमविहांसोऽनुसरन्तश्च सर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदपायमाकर्णयन्ति न ततोऽन्यं प्रतियोग्यनुयोगितया च आत्मैव तत्त्वतो ज्ञेयः। तथाहि यदि नैरात्यं यदि वात्मास्ति वस्तुभूतः उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेव इत्यत्राप्येकवाक्यतैव वादिनामत आत्मतत्त्वं विविच्यते।
शङ्क० टी० (१) प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं(२) प्रयोजनं च दर्शयति । इहेति । इह ग्रन्थे श्रात्मतत्त्वं विवियत इति मम्बन्धः। यदा दह संसारे तत्त्वज्ञानमेव तदुपायमाकर्णयन्तीति सम्बन्धः। नन्वात्मतत्त्वविवेकस्थासुखत्वाददुःखाभावत्वाच्च न पुरुषार्थत्वमतः कथं नदर्थिनोऽत्र प्रवर्तन्तामत आह । तदुपायमिति। दुःखहानोपायमित्यर्थः । पुरुषार्थमाधनत्वादात्मतत्त्वविवेकोऽपि पुरुषार्थ एवेति
(१) 'शङ्का टौ० ।' इत्यनेन शङ्करमिश्रकृता टीका इत्यवगन्तव्यम् । एवमग्रेऽपि । (२) प्रेक्षावत्पत्त्यङ्गमधिधेयं -- पा. १ पु० ।
For Private and Personal Use Only