________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
आत्मतत्त्वविवेके सटौके
व्यवहार इत्यर्थः । विसभागेति। ममानाः सदृशा: भागाः मान्तानिका यस्याः मा मन्ततिः मभागा, विमदृशमान्तानिका च विमभागा, काष्ठाङ्गारादिसन्ततावङ्गारादिजन्मनि काष्ठादिविनाशव्यवहारात् कार्यस्य विनाशत्वस्थिती मभागमन्ततावपि कार्यमेव विनाशत्वेन कल्यते बाधकामावादित्यर्थः ॥
यदि हि तन्तुमालैव पटनित्तिः कथं तदाश्रयस्तदात्मको वा पटः प्राक्। अन्यवासाविति चेत् ! न तावज्जातिकृतमन्यत्वमुपलभ्यते (१) व्यक्तिकृतं तु नाद्यापि सिद्ध्यति। अत एवर) तसिद्धावितरेतराश्रयत्वम् । तथापि यद्येवं स्यात् कौदृशो दोष इति चेत् ! न कश्चित्, केवलं प्रमाणाभावः व्यवहा नदसिद्धावपि मिड्यतस्तस्य निमित्तान्तरापेक्षणात् ॥
__शङ्क० टौ० । यदि होति । तन्तुमालायां पटस्तावद्वर्त्तत इत्यनुभवमिद्धम् । मा चेत्तन्तमाला पटनिवृत्तिः स्यात् तदा स्वध्वंस एव पटो वर्त्तत इत्यायातमिनि स्वमते । परमते त्वाह । तदात्मको वेति । पटोपि तन्तमाला पटनित्तिरपि तन्तमाला तथा च प्रतियोग्यात्मिकैव निवृत्तिः म्यादिति विरोध इत्यर्थः । नन् पूर्वतन्तुमालाया उत्तरतन्तुमाला अन्येव तथा च कथमयं
(१) मन्यदुपलभ्यते- पा० १ ० । (२) इत एव-पा० क्वचित् । टीकारसम्मतोऽपि ।
For Private and Personal Use Only