________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
* २४०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीके
न प्रथमः उपलभ्यन्ते हि पटकाले वेमादयः । न त इति चेत् ! किमच प्रमाणम् । श्रभेदेऽपि दि प्रमाणमिति चेत् ! माभूत् तावत् सन्देह स्थितावपि अनुपलब्धिवलालम्बन विलयात् । न द्वितीयः नहि पटो जात इत्युक्ते तन्तवो नष्टा इति कश्चिद्यवहरति । पटस्थानतिरेकात् तन्तुमाचजन्मनि भेदाग्रहादव्यवहार इति चेत् ? न तर्हि व्यवहारबलमपि ( ) । विसभागसन्ततौ तावद्यवहारबलमस्तौति चेत् नैतदेवम् ॥
शङ्क ० टौ. । ननु पटकाले ये वेमादय उपलभ्यन्ते ते तद्भिन्ना एवेति शङ्कते । न ते त इति । चणभङ्गे मत्येवं (न) म्यात् । म चाद्यापि न सिद्ध इत्यभिप्रायेणाह । किमत्रेति । यद्यपि प्रत्यभिज्ञानं तत्र मानं तथापि तदनुपदर्शनेपि न चतिरित्याशयेनाह । माभूदिति । कार्यकाले कारणानुपलम्भः सन्दिग्ध इति तलं तव भग्नमेवेत्यर्थः । श्रवयवेभ्योऽनन्यत्वमवयविन इति पक्षमादाय शङ्कते । पटम्येति । कारणाभावत्वेन व्यवहर्तुं योग्येऽपि पटे तत्वात्म के पूर्वतन्तुभेदाग्रहान्न तथा व्यवहारः येन तु परौक्ष के भेदो गृह्यते तस्य तथा व्यवहारोऽस्त्येवेति भावः । व्यवहारो हि लौकिकपरीक्षकमाधारण: प्रमाणं म च प्रकृते नास्तीत्याह । तति । परोक्षकस्य विपरीत एव व्यवहारो न कथमत्रेति
(१) व्यवहाराबलम्बनमपि - पा० २ पु० ।
For Private and Personal Use Only