________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२३५
देशकालसम्बन्धेन निरूप्यत इत्यर्थः । श्राद्य इति । निवृत्तिस्वरूपस्यैवाभावादित्यर्थः। द्वितीये विति । भावानाधारकालवत् तदाधारकालेऽपि निवृत्तिस्तुल्येति कदापि भावो न स्यादित्यर्थः ॥
रघ• टी० । प्रथमो घटनिवृत्तिदेशकालमम्बन्धनिषेधः । मोऽपि किं देशकालमम्बन्धस्य निषेधः किं वा घटनिवृत्तः । नाद्यः निहत्तेर्देशकालामम्बन्धित्वेनाविरोधित्वात् घटम्य मार्वत्रिकत्वमदातनत्व प्रसङ्ग इति । द्वितीयमपि निवृत्तनिषेधो वा घटस्य वेति विकल्प्य दूषयति । मोऽयमिति । भावेति विकल्पविषयस्य गुणत्वेनाभिधानमितरफलकत्वसूचनाय। निवृत्तिरूपनिरूक्रिपर्यवमायो भावप्रतिषेधो वेत्यर्थः । निवृत्तिरूपमत्यन्तामत्प्रतियोगिकत्वम् । भावोदे शकालयोः मम्बन्धस्तत्प्रतिषेधेन निवृत्तिरूपमलोकत्वं निरूप्यत इत्यर्थस्तु न युक्तः वक्ष्यमाणमदात्मत्वप्रसङ्गामङ्गतेः । भावप्रतिषेधेन क्वाचिकत्वकादाचित्कत्त्वप्रतिषेधेन निवृत्तिस्वरूपनिरूनिरित्यर्थ इत्यन्ये । तच्चिन्त्यम् । प्रथमपक्षम्य क्वाचित्कत्वादिप्रतिषेधरूपत्वाभावात् । सदातनत्वेति मार्वत्रिकत्वस्याप्यपलक्षणम् । निवृत्तेरिति सदातनत्वेत्यादिकमनुषज्यते ॥
अस्तु तर्हि तत्कार्यत्वमेव ध्रुवभावित्वं ! न, तस्यापि कार्य इति पक्षे विरोधात् तस्यैव कार्य इत्यसिद्धेः । यत्किञ्चिदत्पन्नमाचस्य कार्य स एव तस्य नाश इति चेत् । तर्हि यस्याः सामग्रमा यत् कार्य तत् तदरिक्तान
For Private and Personal Use Only