________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
आत्मतत्त्वविवेके सटीके
क्षणान्तरकार्य प्रत्य शक्तत्वादित्यर्थः । तथा च मत्त्वकालेऽप्यमत्त्वमिति विरोध इति भावः । ननु किञ्चिदपेक्ष्याऽमत्त्वेऽपि किञ्चिदपेक्षया मत्त्वमविरुद्धमित्याह । कालान्तरेति ॥
रघु० । टौ ।
हितीये तु यदि कालान्तराधाराशक्तिः कथं तदात्मिका। तदाधारा चेत् तदैवामत्त्वप्रसङ्गः कालान्तरे तु विपर्ययः। तस्मात् विधिरात्माऽस्य भावस्य निषेधस्तु ततः परः । सोऽपि चात्मेति कः प्रेक्षः शृण्वन्नपि न लज्जते ॥
शङ्कटौ. । स्वकार्यमपि प्रति कालान्तरेऽपि शकिरमत्त्वमिति द्वितीयं पदं दृषयति । यदौति । कथं तदात्मिका-कथ प्रतियोग्यात्मिका । प्रतियोगिनः क्षणमात्रवृत्तितया द्वितीये क्षण ऽमत्वादित्यर्थः । तदाधारा चेदिति । प्रतियोगिकालाधारेत्यर्थः । कालान्तर इति । स्वकालाकारेरन्यदशक्तिरसत्त्वं तदा स्वकालातिरिके काल्ने भावस्य मत्त्व प्रसङ्ग दति स्थैर्यमेवावर्त्तत इति भावः । प्रथमविकल्पप्रसङ्गमुपसंहरति । तस्मादिति । स्वभावाभावयोविधायकनिषेधकप्रमाणगोचरयोस्तादात्म्यं मर्वथाऽनुपपन्नमित्यर्थः । प्रष्टा ईचा प्रेक्षा तथा व्यवहरतोति प्रेक्षः ॥
For Private and Personal Use Only