________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
२२५
स्यापत्तेः। अनतिरेकसिद्धौ घटोत्पादकमामग्रौत एव तध्वंमोऽपौति सिद्धं चणिकत्वव्यापकत्वं सत्त्वस्येति भावः । निरुपाख्यत्वमिति : उपाख्या धर्मम्तच्छून्यत्वमलौकत्वमिति यावत् । अलौकम्य च कारणापेक्षित्वेऽलोकत्वव्याघातात् सिद्धमहेतुकत्वमिति भावः । तत्कार्यत्वमिति । प्रतियोगिजन्यत्वमित्यर्थः । तेन प्रतियोगौतर हेत्वनपेक्षत्त्वं माध्यमिति भावः। व्यापकत्वमिति । प्रतियोगिव्यापकत्व मित्यर्थः । यद्यस्य व्यापक तत्र तस्य हेत्वन्तरापेक्षायां व्यापकत्वानुपपत्तेरिति भावः । प्रभावत्वमिति । प्रागभावदृष्टान्तेन ध्वंमस्याप्य हेतुकत्वादहेतुकत्वमिति भावः । निषेध्येति । विरुद्धयोर्भावाभावयोरेकत्वे भावोत्पत्तिक्षणेऽपि तदभावा पत्ते: ९) मर्वशून्यताप्रसङ्गादित्यर्थः । उपपत्तौ वेति । विरोधिरूपवतोरप्यैक्ये ग्वावादौनामप्यक्यप्रसङ्गात् ॥
रघु० टौ । यदि चैवमुत्पत्तिमतां क्षणिकत्वे मिद्धेऽपि नित्यत्वेन पररभ्यपगतानां परमाणनां तन्न मिद्धमिति विभाव्यते तदा नित्येषु मिद्धव्याप्तिकेन सत्त्वेन तेषां विनाशित्वं क्षणिकत्वं वा माधयिष्यते इत्याशयवानाशङ्कते। प्रस्तु तौति । अहेतुकत्वं च नदत्यत्त्युत्तरभाविडेवनपेक्षत्वम् । अत्र च यो 'यम्य ध्रुवभावौ म तदत्पत्त्युत्तरभावि हेत्वनपेक्षो यथा पूर्वस्य बौजक्षणम्योत्तरः यथा वा कर्मणो विभागः, ध्रुवभावौ च प्रतियोगिनो विनाश इति वस्तुतस्तेषामभिमतः प्रयोगः । उदक्षरमपि परकौयसिद्धान्तभेदानुसारेण
(१) तदभावोत्पत्तेः पु० पा० ।
For Private and Personal Use Only