SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० आत्मतत्त्वविवेक सटौके भिद्यते तत्र तस्य धर्मस्येत्यन्ये । केवलमधिकरणमभाव इति मतेनाह । तदभावेति । तस्य अधिकरणस्य । क्रमेति। अर्थक्रियानुकूलक्रमयोगपद्ययोः क्रमादिकं मत्त्वस्याप्युपलक्षणम् । एवमग्रेऽपि ॥ नापि क्रमयोगपद्याभावरूपत्वं शविषाणस्य प्रामाणिकं घटाभाववच्छ शविषाणस्य प्रमाणेनानुपलम्भात् । घटाभावोऽपि न प्रमाणगोचर इति चेत् न तस्य तद्विविक्तेतरस्वभावस्यापि प्रमाणत एव सिद्धेः असिद्धौ वा तचाप्यव्यवहार एव । शङ्क० टी०। द्वितीयं निरस्यति । नापौति । स्यादेवं यदि शविषाणे क्रमयोगपद्याभाव इति प्रतीतिः केनापि प्रमाणेन स्थान्न त्वेवमित्यर्थः । घटाभाववदिति व्यतिरेकदृष्टान्तः अधिकरणस्वभावत्वेप्यभावम्य प्रतीतिरेतादृश्येवाभ्यपेयेति भावः। ननु यया प्रमाणाविषयस्यापि घटाभावस्य व्यवहारः सर्वजनौनस्तथा क्रमयोगपद्याभावव्यवहारोपि स्थादित्य भिप्रायेण शङ्कते। घटाभावोपौति : परिहरति । तस्येति । घटविविक्र घटभिन्नं भूतलादि। तदतिरिक्तखभावम्य घटाभावम्येत्यर्थः । यथाधिकरणातिरिको घटाभावः प्रत्यचत उपलभ्यते। नैवं क्रमयोगपद्याभाव दति भावः। ननु भूतले घटो नास्तौति प्रतीतिरप्यमत्ख्या तिरेवेत्यत आह । अमिद्धाविति । तत्रापि घटाभावेपि। प्रमितम्यैव व्यवहार्यत्वादिति भावः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy