________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
२११
भगी० टी० । द्वितौयं कल्पं निरस्यति । नापीति । घटाभाववदित्ययमपि व्यतिरेकदृष्टान्तः । ननु बौद्धानां घटाभावोऽपि न प्रामाणिक इति सर्वत्राप्रामाणिको लोकव्यवहार इत्याह । घटाभावोऽपीति । श्रतिरिक्ताभावस्य साधनीयत्वेन स्वमतमाश्रित्याह । तद्विविक्रेति । तस्मादभावाद्विविक्रो भिन्नः प्रतियोगों घटस्तदितरस्वभावस्येत्यर्थः । तद्विविको घटविविक्तः पटादिम्तदितरस्वभावस्येत्यन्ये । गुरुवचनमाश्रित्योत्तरमित्यपरे । तथा ह्यतिरिक्ताभावस्याप्रामाणिकत्वेऽपि भूतलादिरूपस्तन्नये व्यवहर्तव्यः प्रामाणिक एवेत्यर्थः ॥
रघु · टौ० । घटाभाववदिति व्यतिरेकेण दृष्टान्तः तस्यासिद्धिमाह । घटाभावोपीति । तथा च पचः स्थिरो भाव दूव
सपचादिरप्यप्रामाणिक उपयुज्यत इति भावः । तद्विविक्रेतरेति । तद्विविक्रस्तद्भिन्नस्तदितरस्वभावस्य प्रतियोगिवदभावस्याप्यतयावृत्तस्वभावस्य प्रमाणसिद्धत्वाच्च केवलमधिकरणमन्यो वेत्यन्यदेतदिति भावः । तत्रापि घटाभावेऽपि ॥
स्वाभावविरहस्वभावः
प्रमाणसिद्धः
घटस्तावत् ताद्रयेण कदाचिदप्यनुपलम्भात् । एतावतैव तदभावोऽपि घटविरहस्वभावः सिद्ध इति चेन्न घटभावस्य तदभावविरह स्वभावत्वानभ्युपगमात् । न चान्यस्य
For Private and Personal Use Only