SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ आत्मतत्त्वविवेके सटीके केवलं प्रमाणाभावादपि तु प्रशविषाणादिविकल्पार्थबोधादपि तस्य शविषाणारोपरूपत्वमित्यर्थः । भ्रमस्य शक्तिरजततादात्म्यविषयत्वेऽपि नामख्यातिः शक्तिरजतयोरिव तादात्म्यस्यापि सत्त्वात् । न च तयोस्तादात्म्येऽसत्ख्यातौ च तादात्म्यं चेत्यतोधिकम्य तस्याभावात् तेषां च सत्त्वात् मद्विषयत्वेऽपि भ्रमत्वं न ह्यमद्विषयत्वेन भमत्वमपि तु विभेश्यावृत्तिप्रकारकत्वादिति भावः। ननु साध्यविपरीतधर्मवत्येव धर्मिणि व्यतिरेको न किं तु तदभावेऽपि व्यतिरेको ग्टह्यते तस्यापि तद्विषयत्वं धर्मत्वाविप्रेषात् तस्माद् व्यतिरेकयो ाप्तिरलौकरूप एवाश्रये ग्टह्यतामित्याशयेनाह । भवत्विति । क्षणिकमत्त्वव्यतिरेकयोरप्यलोकतया व्याप्तिग्रहो न प्रमाणेन शक्य दत्यर्थः ॥ रघ ० टौ । उपसंइरति । तदमूरिति। नैतदित्यादि । अपिर्भिन्नक्रमे शविषाणादिविकल्पानां विनाऽवख्याति दुरुपपादतया तदनुरोधेनो पेततया तया अवस्तुनि धर्मान्तराभावग्रहात्। तस्थापि निषेधव्यवहारगोचरत्वमिति नेत्यर्थः । शशविषाणे घटत्वादिकं नास्तौति विकल्पानाममख्याती कारणाभावेनान्यथाख्यातित्वप्रौव्यावस्तुन एव निषेधव्यवहारगोचरत्वं नावस्तुनः अपिः प्रमाणान्तराभावे समुच्चयायेत्यप्याहुः। न ततः तस्मिन्नमति क्रमयोगपद्ययोः सत्त्वस्य च व्यतिरेको विरहः ॥ तथाहि कोऽयं व्यतिरेको नाम यद्यतो व्यतिरिच्यते तस्य तवाभावो वा तदभावस्वभावत्वं वा। तब न For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy