________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
25
क्षणभङ्गवादः।
Acharya Shri Kailassagarsuri Gyanmandir
विषाणादिशब्दात् कर्म रोमादिविकल्पानामप्युत्पत्ति
प्रसङ्गात् नियामकाभावात् ।
श० टी० ० । ननु लाघवाद् ज्ञात एव व्यवहारोस्तु किं प्रमितत्वपर्ययाते नन्विति । एत दूति । कूर्मरोस्टङ्गादिगोचरा इत्यर्थः । न चेनि । गौरवादिति भावः । विष यत्वं प्रमाविषयत्वव्याप्यं न वेत्यमतख्यातौ विप्रतिपत्तिः व्याप्यत्व - व्यतिरेको निरधिकरण श्राकाशादौ प्रसिद्धः सामानाधिकरण्यविशेषम्य व्याप्तिलात् । यद्वा नित्यद्रव्याविषयकमिदं रजतमिति जानं विशेषणान्यव्यासज्य प्रतियो गिकात्यन्ताभावात्यन्ताभावाप्रतियोगिभात्रं (?) स्वातिरिक्रप्रमेयातिरिक्तविषयं न वेति विप्रतिपत्तिः । जितमिति । प्रमितमेव व्यवहारविषय इति वादिभिरित्यर्थः । परिशेषेण कारणाभावमेव व्यवस्थापयति । इन्द्र 1 इन्द्रियार्थसन्निकर्षजन्यत्वात् प्रत्यचस्येत्यर्थः । आरोप्यस्यासन्निकर्षोऽपि क्वचित्सन्निकर्षो वक्तव्य एवेति भावः । ननु प्रत्यक्षाभासाभावेऽपि लिङ्गाभासाच्छब्दाभावाद्वा स्यादचत्ख्यातिरित्यत श्राह । लिङ्गेति । धूलोपटले धूमारोपादसद्वहिर्भासेत पर्वते तत्र धूमस्य धूलोपटलस्य व प्रमितत्वं क्वचिद्वाच्यमेवेत्यन्यथा ख्यातिपर्यवसानमेवं चानाप्तोदीरिताच्छब्दात् पदार्थो वाक्यार्थी वा प्रतीत एव भामत इत्यन्यथाख्यातिरेवेत्यर्थः । ननु स्वादेवं यदि व्याप्तिबलात् मरुबलाद्वा भानं भवेन्न त्वमित्यत श्राह । अपहस्तितेति । तिरस्कृतस्वार्थयोरित्यर्थः । लिङ्गस्य स्वार्थी व्यापको ज्यादिः शब्दम् चार्थः मङ्केतविषयः तत्तिरस्कारे नियमो न स्यादिति आव: !!
विषयाधिपत्यं विषय सहकारिता
१९३
For Private and Personal Use Only