________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयाभवाद:
१०१
इत्याह । सतत्व चति । सुतत्वमविनाभूतं येन सुतत्वव्यापकमिति यावत् वकृत्वादौत्यादिपदान् सामर्थ्यवस्तुत्वक्रमादौनां परिग्रहः । क मादिविरहावस्तुत्व सामर्थ्य विरहावक्रत्वादीनां पूर्वपूर्वस्यामिया तत्साध्य तरोत्तरा मिद्धिरित्यर्थः । अस्तु तर्हि विधिनिषेधव्यवहारभाजनत्वमेवामत इत्येतदुपसंहारव्याजेन निरम्यति । तस्मादिति । तथा चाऽमति प्रमाणविरहान प्रवृत्तिरिति ।
न ह्यप्रतौते देवदत्तादौ स किं गौरः कृष्णो वेति वैयात्यं विना प्रश्नः तचापि योकोऽप्रतीतपरामर्षविषय(१) एवोत्तरं ददाति न गौर इति अपरोऽपि किं न दद्यान्न कृष्ण इति। न चैवं सति काचिदर्थसिद्धिः प्रमाणाभावविरोधयोरुभयचापि तुल्यत्वादिति ।
शङ्क० टी०। व्यवहाराविषये (२) मर्वविधिनिषेधव्यवहारमर्यादाविलोपमुदाहरणेन दर्शयति । नहौति । वैयात्यं धार्य । अव्यवस्था मेव दर्शयति । तत्रापोति । अर्थसिद्धिरिति । प्रश्नविषयार्थ सिद्धिरित्यर्थः।
भगौ० टी०। अप्रामाणिकेऽर्थ उत्तरवादीव प्रष्टाप्यप्रामाणिक एवेत्याह । न हौति ! वैयात्यं धार्यम् स्वाज्ञानानावरणं
(२) अविदितपरामर्श विषय इति भगीरथसम्मतः पाठः । (२' व्यवहारावि राधे ऽघि – पा० २ पु० |
For Private and Personal Use Only