________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८.
यात्मतत्त्वविवेके सटीके
नस्य कुतस्तमां चावक्तृत्वादिसाधनानाम् तस्मात् प्रमाणमेव सौमा व्यवहारनियमस्य तदतिक्रमे त्वनियम एवेति।
शङ्क० टौ. । क्रमयोगपद्यविरहात् सामर्थ्यविरहे माध्ये कान्योन्याश्रय इत्यर्थः । न हि क्रमयोगपद्यविरहात् सर्वसामर्थ्यविरहः ततश्चावस्तुत्वमवस्तुत्वाच्च क्रमयोगपद्यविरह इति चक्रकमिति भावः । सुतत्वेनैव हेतुना वक्रत्वं क्रमयोगपद्यं वस्तुत्वं च भर्वमेकवारमेव मया साधनौयमिति त्वत्साधनानामनवसरपराहतत्वमित्याह। सुतत्वे चेति । एवं प्रतिवन्दिमुखेन परमतेन दूषयित्वा स्वमतमुपसंहरति । तस्मादिति ॥
भगौ० टौ । क्रमेति । क्रमयोगपविरहाभ्यां सर्वभामर्थ्यविरहमिद्धौ नान्योन्याश्रय इत्यर्थः । कुत इति । अर्थक्रियायामवस्तुनि कर्तव्यतायां कुतः क्रमयोगपद्यविरहमिद्धिः तदमिद्धौ च न तत्माध्यमर्वसामर्थ्यविरहसिद्धिस्तद सिद्धौ च न तत्साध्यावतत्वसिद्धिरित्यर्थः । एवं परमतं दूषयित्वा खमतमाश्रित्योपसंहरति । तस्मादिति । तथा चालोके मानाभावान्नावकत्वादिसाधनमित्यर्थः ।
रघु० टौ । अवम्तुत्वात् काल्पनिकत्वात् अर्थक्रियाकारित्वशन्यत्वादा क्रमादिविरहादवस्तुत्वसिद्धिरित्याशङ्कते । क्रमेति । शङ्का निरस्यति । नेति । न वा क्रमादिविरहः माधयितुमपि शक्य
For Private and Personal Use Only