________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
आत्मतत्त्वविवेके सटौके
मेव तथोपस्थितम् येन स्फुटतरः स्ववचनविरोध इत्यर्थः । एतदेवाह। नहीति ॥
भगो० टी० । ननु विधिव्यवहाराभाजनत्वनिषेधव्यवहाराभाजनत्वाभ्यां न व्यवहियत इत्यत्र विरोधेऽपि न व्यवहियत इत्यत्र न विरोधव्यवहार निषेधमात्रम्य विवक्षितत्वादित्यत आह । नेति पक्ष दति । तयापि न पहियते तविरहितत्वव्यवहारश्चेति विरोधस्तदवस्थ एवेत्यर्थः । ननु व्यवहारमात्रनिषेधात् तद्विरहितत्वव्यवहारोऽपि नानुमत एवेत्यत आह । अव्यवहतम्यति । प्रतियोगिव्यवहारनिरूपणं विना निषेधव्यवहारोऽपि तत्र न स्थादित्यर्थः । विषयेति। मकल विधिनिषेधव्यवहाराभाजनत्वव्यवहारेणैव विरोध इत्यर्थः । तदेवाह। नहीति ।
रघु० टौ । उभयथा विरोधं व्युत्पादयति । मेतीत्यादिना । सकलेति। सकलव्यवहारशून्यत्वं यत्र प्रतोतं तत्रैव तद्व्यवहारात् कथं सर्वत्र तावहारनिषेधः। अथ न क्वापि तत्प्रतीतं तदा तयवहारस्याप्यप्रत्ययात् कथं निषेध इत्याह । , अव्यवहतस्येति । अज्ञातस्येत्यर्थः । विषयेति। सकलव्यवहाराभाजनस्य कवहाराभावव्यवहाराभ्युपगमादित्यर्थः । तदेवाह । नहौति ॥
यदि चावस्तुनो निषेधव्यवहारगोचर त्वं विधिव्यवहारगोचरतापि किं न स्यात् प्रमाणाभावस्योभयचापि तुल्यत्वादिति । बन्ध्यासुतस्यावक्तृत्वे ऽचेतनत्वादिकमेव
For Private and Personal Use Only