________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौक
रघ• टौ। व्यवहाराभाजनत्वेन स्वयमभ्यपगते अलीके क्रमाद्यभावव्यवहारता त्वयापि स्ववचनविरोधः स्वहम्तित एवेत्याहू यदि चेति ॥
विधिव्यवहारमावाभिप्रायेणाभाजनत्ववादे कुतो विरोध इति चेत् हन्त मकलविधिनिषेधव्यवहाराभाजनत्वेन किञ्चिव्यवहियते न वा उभयथापि स्ववचनविरोधः उभयथाप्यवस्तुनैव तेन भवितव्यम् वस्तुनः सर्वव्यवहारविरहानुपपत्तेः ।
शाङ्क • टो' । ननु येन मकलव्यवहाराभाजनत्वमलौकस्याङ्गौक्रियते तस्य तव निषधव्यवहार मया क्रियमाणं निषेधः स्यात् स्ववचनविरोधो मया तु विधिव्यवहाराभाजनवमात्रमङ्गो क्रियते तत्र तथा च मत्त्वक्षणिकवादिनिषेधव्यवहारं कुर्वतो मम कुतः स्ववचनविरोध इत्याह । विधोति । विधिव्यवहारमात्रतिवदता त्वया विधिनिषेधव्यवहाराभाजनत्वेन न किञ्चिदशौकरोमौति मात्रपदख रसः । तथा प्रतीयते च तावतापि तव स्ववत्तनविरोध एवेति विकल्यते । दर्शयति। हन्तेति । उभयथ त व्यवहाराव्यव हारयोरित्ययः । उभयथापौति। मकलविधिनिषेधव्यवहाराभाजनत्वव्यवहारो यस्मिन् धर्मिणि तदवस्तु कथं न स्यात् । यदि च मकलव्यवहाराभाजनत्वं व्यवहियले। तदा मकलव्यवहारभाजनत्व
For Private and Personal Use Only