________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
२४६
स चेह नास्ति तद्देशकार्यकारित्वं हि तद्देशकार्याकारित्वेन विरुद्धं सहिधौ तस्य नियमेन निषेधात् न पुनर्देशान्तरे सत्कार्याकारित्वेन तस्यानिषेधात् न ह्यन्यत्र तदकरणमतत्करणं वा तच तत्करणस्याभावोऽपि तु तब नदकरणमिति चेत् इन्तैवम्भूतविरोधलक्षणव्यात्तिभित्रकालशक्त्यशक्त्यो तत्प्रतिसन्दधौथाः॥
शङ्क० टौ। ननु सामर्थ्यासामर्थ्य विरुद्धे एव न भवत इत्याह। न तृतीय इति। विरोधेति । परस्परविरहात्मनोः परस्परविरहव्याप्ययोर्वा विरोधधौव्यमित्यर्थः । नन्वेकदेशावच्छेदेन कारित्वाकारित्वे विरोधलक्षणाक्रान्ते न तु देशभेदेनापौत्याह । प्रयोगे वेति। तदेव साम्यापादनाय परद्वारा चिन्तयति । तद्देशकार्यकारित्वमिति । यद्देशे करोति तत्रैव न कुर्यात् तदा विरोधः स्थादित्यर्थः देशान्तरे कार्यकारित्वेनेत्यच तद्देशकारित्वं विरुद्धमित्यनुषञ्चनौयम् । तस्येति । देशान्तरे तदकरणास्यानिषेधादित्यर्थः । नहौति । अन्यत्र यत् तत्करणं तद्विरुद्धकार्यकरणं वा न तदेव तत्र तत्करणस्थाभावो येन विरोधः स्यादपि तु तचैव देशे तदानौमेव तदकरणं तत्करणस्याभाव इत्यर्थः । माम्यमापादयति। हन्तैवमिति। तदा तदकरणं तत्करणस्य विरोधि न वन्यदापि तदकरणं येन विरोधः स्थादित्यक्रमित्यर्थः ॥
For Private and Personal Use Only