________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८
ध्यात्मतत्त्वविवेक सटौके
शङ्क० टौ। ननु सामर्थ्यासामर्थ्य विरुद्धे अप्येकत्र विद्यमाने अपि न धर्मिणं भिन्ते इत्याह । न द्वितीय इति । अनेकान्तिकश्चेति । देशभेदेन ताभ्यां विरुद्धाभ्यामपि भेदासाधनादित्यर्थः ॥
भगौ० टौ। निर्निमित्तकेति। यदौतरानिमित्तको भेदव्यवहारो विरुद्धधर्माध्यामजन्यो न स्यात् अकारणकः स्यादित्यर्थ: । विरुद्धधर्माध्यासेऽप्यभेदश्च स्यादिति भावः । अनेकान्तिकश्चेति । यदि देशतो विरुद्धधर्माध्यासेऽपि न भेदस्तदा कालतोऽपि विरुद्धधर्माध्यासो हेतुर्भदे माध्येऽनेकान्तिकः स्यादित्यर्थः ॥
रघु० टौ. । निर्निमित्तकत्वस्य निर्विषयत्वस्य प्रसङ्गात् क्वचिदपि भेदम्यामिद्धत्वात् । अनेकान्तिक इति। भेदप्रमिद्धिमभ्यपेत्य तदप्रसिद्धौ तु व्याप्यत्वामिद्धिद्रष्टव्या ॥
न तृतीयः विरोधलक्षणयोगे बाधकसहस्रेणापि विरोधस्यापनेतुमशक्यत्वात् अयोगे वा तदेव चिन्त्यम् । यविधाने यस्य निषेधो यनिषेधे वा यस्य विधानं तयोरेकच धर्मिणि परस्परपगैहारस्थिततया विरोधः(१)
(१) परस्पर परीहारावस्थितयोविरोधः- पा. १ पु० :
For Private and Personal Use Only