________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
भगौ० टी० । यद्विधान इति । यद्यपि गोत्वाश्वत्वविरोधाव्यापकमिदं विरोधलक्षणं तयोः परस्पराभावव्याप्ययोः परस्पराभावानामेकत्वात् तथापि नेदं विरोधसामान्यलचणं किन्तु भावाभावरूपविरोध विशेष कीर्तनमिदम् । यथा विधिनिषेधावच ज्ञानस्यैव तथा चायमर्थः यद्विधाने यस्य ज्ञाने मति यत्र धर्मिण्यपरनिषेधो नियमेन ज्ञानाभावो यन्निषेधे च यदजाने च नियमतो यत्र यस्य विधिर्ज्ञानं तत् तेन विरुद्धमिति सामान्यलचणपरत्वमपि न पुनरिति । तद्देशकार्यकारित्वमित्यनुषज्यते । तस्य देशान्तरे तदकरणस्येत्यर्थः । एतदेव स्पष्टयति । न होति । यत्र यत्करणं नोपलभ्यतेऽतत्करणं तद्विरुद्ध जातीयकरणस्येत्यर्थः । तचेति । यत्र देशे तत्करणस्य तद्विरुद्वजातीयाकरपास्यमानमिद्धत्वान विरोध इत्यर्थः । श्रपि त्विति 1 तथा च तत्र तदकरणमेव तस्य तत्करणविरुद्धमित्यर्थः । इन्तैवमिति तदा तदकरणं हि तदा तत्करणविरोधिसहानवस्थाननियमात् न त्वन्यदा तदकरण -- मित्युक्रमित्यर्थः ॥
रघु०
टी० । ० । प्रयोगे वा विरोधलक्षणस्य तदेव विरोधलक्षणमेव चिन्त्यम् । यद्विधान इति । भावाभावविरोधविवेचनं यद्विधाने क्रियमाणे यस्य निषेधः मिति यनिषेधे च क्रियमाणे द्विधानं मियति । यद्विधानं यनिषेधो यनिषेधो यद्विधानमिति तु फलितार्थः । केचित्तु विधाननिषेधौ ज्ञानाज्ञाने तथा च यदज्ञाने यज्ञानं यदज्ञान एव यज्ज्ञानमित्यर्थाद् गोवाश्वत्वादि
For Private and Personal Use Only