SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ व्यात्मतत्वविवेके सटीक नियतान्वयव्यतिरेकशालिन एव च समवधानस्य नियामकत्वाबातिप्रसङ्ग इति। महकारिसहित इत्यस्याग्रे खतो व्यापारतो वेत्यादिः । जातनष्टो निर्णयध्वस्तः ॥ तस्मात् कार्यस्य स एव कालः कारणस्य तु स चान्यश्चेति सम्बन्धिकालापेक्षया पूर्वकालताव्यवहारः। अपि च यदा तदेतिस्थाने यच तचेति प्रक्षिप्य तयोरेव प्रसङ्गतविपर्यययोः को दोषः । न कश्चिदिति चेत् नहि देशातं वा कारणभेदो वा आपद्येत। आपद्यतां तदादाय योगाचारनयनगरं प्रवेश्याम इति चेत् न हेतुफलभाववादवैरिणमनपोद्य तच प्रवेष्टमशक्यत्वात् । तदपवादे वा सत्त्वाख्यसाधनशस्त्रसंन्यासिनस्तव वहिर्वादसङ्गामभूमावपि कुतो भयम् ॥ शङ्क. टौ । नन्वेतावता कार्यकारणयोर्योगपद्ये कारणस्य पूर्वकालताविरहात् कारणतेव न स्यादित्यत आह । तस्मादिति । स एव सामग्र्यव्यवहितोत्तर एव। कारणस्येति । किञ्चित् कारणं तत्वादि सामय्यनन्तरमप्यनुवर्तते किञ्चित्तु व्यापार जनयित्वा कार्यात् पूर्वमेव नश्यतीत्यनियम एवेत्यर्थः । सम्ब - धौति । यस्मिन् काले यत् सम्बध्यते स एव तस्य काल इत्यर्थः । प्रथमप्रकरणार्थप्रपञ्चोऽयं परस्मै यदिरोधदानाय तमिदानौमाह । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy