SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटौके करणात् विपर्यये च बाधा सिद्धी नियतकालविशेषविवक्षायां यदा कारि तदा कारौत्येतदपोष्टमेव आपाधापादकयोरेककालाविवक्षायां यदिदानौमिदं कारि स्यादन्यदाऽकारि न स्यात् अन्यकालाकारित्वानेदानौं कारीत्य प्रयोजकं कालभेदादेवोपपत्तेरित्यपसंहारोशक्य इत्यर्थः । वयाप्येतत्कालकारिण: कालान्तराकरणानुभवायाप्तिनोंपेयत इति भावः । यद्यदा न करोति तत् तदा न ममर्थमिति कालवाचिपदोपादानं व्यर्थम् कारिणो यावत्सत्त्वं सामर्थ्यादकारिणश्वासामर्थ्यादित्याशयेनाह । यदा तदेति । यत् समर्थ तत्करोत्येव कार्याव्यवहितपूर्ववत्यै वेत्युपसंहारः। शक्य एवेत्यर्थः। यदौदं सर्वदापाद्यते यदा मूलगौथिल्यं त्वन्मते ऽपि कारिण्येव कदाचिदकारित्वानुभवेन व्यभिचारादिति कदाचिदापाद्यं तत्र सिद्धमाधनमित्याह । कालनियोति। कालनियमः सार्वदिकत्वं क्रियामङ्गतैव कारिण्यात्यन्तायोगव्यवच्छेदः सम्भवमात्ररूपोर्थक्रियासम्भवे विरुध्यते न तु कदाचित् सम्भव इत्यर्थः ॥ रघु० टी०। प्रसङ्गेति । ताभ्यामकारिणोऽसामयसाधकाभ्यां कार्यकारिभेदमिद्धिपर्यवमिताभ्यामर्थत: करणाकरण योः स्वरूपेणैव विरोधस्य मिद्धेरिति भावः । यद्यपि ताभ्यामेव भेद सिद्धौ कृतममुना विरोधेन तदुपजीविना तथापि तावेव न सम्भवत इत्याह। तयोरिति । प्रमङ्ग सामर्थ्यस्य हेतुतया विपर्यये चासामथ्यमा माध्यतया विषयत्वं सामर्थप्रसञ्जनौयं करणं चेह सामर्थं तत्र च For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy