________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
यात्मतत्वविवेके सटौके
बहत्वादेरेवावयविपरिमाणोत्पादकत्वाच्च अन्यथा धरण्यादिपतितमृत्पिण्डादेरवयवान्तरसंयुनावयवस्य च पूर्वपरिमाणनाशः प्रकृष्टतरपरिमाणत होत्पादश्च स्थादिति भावः ॥
अस्तु तहाँहापि बाधकं बलं प्रसङ्गतविपर्यययोरुक्तत्वादिति चेत् न तयोः सामीसामर्थ्यविषयत्वात् तत्र च उक्तत्वात् स्तां वा न तथापि ताभ्यां शक्त्यशत्योरविवक्षितत्वात् कालभेद एव विरोधः साध्यते तथोपसंहर्तुमशक्यत्वात् यदा तदेत्युपेक्ष्य यत् समर्थ तत्करोत्येवेत्युपसंहर्तुं शक्यमिति चेन्न कालनियमाविवक्षायां यत् समर्थ तत्करोत्येवेति कदाचित् स्यात् तथा च सम्भवविधेरत्यन्तायोगो विरुद्धो न त्वयोगः नौलं सरोजं भवत्येवेति वत् ॥
शङ्क० टी० । अस्विति । यदौदं द्रव्यं दीर्घ स्यात् हस्खं न स्थादितिवत् यदि बीजं कारि स्थादकारि न स्थादकारि चैतत् तस्मान कारोति प्रसङ्गतविपर्ययौ स्यातामिहापौत्यर्थः । कारित्वाकारित्वे यदि सामर्थ्यासामर्थ्य एव तत्र प्रसङ्गतविपर्ययो पूर्वमेव निरस्तावित्याह । नेति । तत्रेति । ननु सामर्थ्यासामर्थ्य प्रति प्रमङ्गतविपर्ययौ नोच्यते येन पूर्वनिरस्तत्वं स्थात् किं तर्हि कारित्वाकारित्वे प्रति ते च ताभ्यामन्ये एवेत्यत आह । स्तां
For Private and Personal Use Only