SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir रघु टौ० । भावाभावेति । श्रभेदे श्राप्याक्षेपकभावानुप 0 पत्तेरिति भावः । व्यापारापरव्यपदेशः । सहकारी चरमो व्यापारः । हि यस्मात् । एतावेतौ वा परस्परविरहरूपावेव करणकरणे | करणाभावातिरिक्राकरणाभ्युपगमेपि दोषमाह । अतिरेकेति । अन्यदा स्वानधिकरणकाले प्रतिचेप्तुं प्रतिक्षेपात्मभवितुम् श्रभावाभावस्य प्रतियोगिरूपत्वात् । विरोध्यभावं विरोधिनोऽभावम् । तथा मतीति । स्वासत्त्वकालेऽपि स्वाभावप्रतिक्षेपे तदापि तदभावो न स्यात् स एव स्यात् । स्वासत्त्वकालेऽपि च स्वविरोधिनोऽभावाचेपे तदानीमपि तद्विरोधी न स्यादित्यर्थः । न वेति । स्वासत्त्वकालेsपि विरोधिनोऽभावाक्षेपे तुम्यन्यायतया स्वानधिकरणदेशेऽपि तथावे सर्वदा सत्र तस्यामले विरोध एव न मियेदित्यर्थः (१) ॥ १२३ नन्वेवं सति परिमाणभेदोऽपि कालमेदेन न विरुड्यते तचाप्येवं वक्तुं सुकरत्वात् न बाधकबलेन तच कालभेदस्य विवक्षितत्वात् । तथाहि नारव्यद्रव्यैरेव द्रव्यावयवैर्द्रव्यान्तरमारभ्यते मूर्तत्वसमानदेशत्वयोरेकदा विरोधात् । तथा चारम्भपक्षे पूर्वद्रव्यनिवृत्तिः श्रनिवृत्तावनारम्भ इति । तत्र निवृत्तावाश्रयमेदादेव परिमाणभेदः अनिवृत्तौ संयोगिद्रव्यान्तरानुपचये क (१) विरोध एव न स्यादित्यर्थः- पा० ४५० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy