________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
यात्मतावविवेके सटौके
परिमाणभेदोपलम्भो यो विरोधमावहेत् । तदपचये तु) व परिमाणान्तरोत्पत्तिः आश्रयानुत्पत्तेः। अत एव स्थौल्यातिशयप्रत्ययोऽपि तत्र भ्रान्तः तस्मात् कालभेदेनापि न परिमाणभेदः एकस्मिन् धर्मिण्युपसंहतुं शक्यत इत्यादि पदार्थचिन्ताचतुरैः सह विवेचनौयम् (२) ॥
शङ्क० टौ । एवं मति दीर्घत्वहुखत्वे अपि परिमाणे कालभेदेन विरुद्ध न स्याताम् तथा च कालादिप्रत्यभिज्ञापि प्रमेव स्थादित्याह । नवमिति । खकाल एव स्वविरोधिपरिमाणं प्रतिक्षिपेत् न तु स्वाकालेऽपौति वक्तं सुकरत्वादित्यर्थः । तत्र भिन्नकालयोरपि परिमाणथोरेकत्र धर्मिणि विरोधस्य प्रमाणसिद्धत्वादित्याह ! नेति । तत्र परिमाणभेदो द्रव्यनाशे सत्येव भवेन्न तु पूर्वद्रव्ये सतौति तथाहीत्यादिना विवेचनीयमितान्तेनोपपादयति । तथाहौति। अविनष्ट एव पूर्वद्रव्ये यदि तेव्धवयवेषु द्रव्यान्तरमुत्पद्यत तदा भूर्तयोः समानदेशबमापद्यतेत्यास(३) । नारधेति । ननु घटादौ चतुरालोकयोर्मयोरेकदेशवृत्तित्वं खीकृतमेवेति चेत् न तत्र चालनिन्यायेनोभयवृत्त्यभ्यपगमात् निविडावयवमूर्तदयाभिप्रायेण(४) वा विरोधस्योकत्वात् । ननु तथा
(१) तदुपच येऽपि च--- पा० १ पु । (२) चिन्तनौ यम्-- पा० ३ पु० । (३) आपद्यतेत्यर्थः-पा० २ पु । (E) न निस्वयवमूर्तद्रयाभिप्रायेण - पा० २ पु० ।
For Private and Personal Use Only