________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
स्थादेतत् । माभूत् सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गः अस्तु बोजत्वमेव प्रयोजकं भवतु च सहकारिसमवधाने सति कर्वस्वभावत्वं भावस्य तथा च तदसन्निधाने ऽकरणमप्युपपद्यताम् तथापि तज्जातीयमात्र एवेयं व्यवस्था न त्वेकस्यां व्यक्तौ करणाकरणलक्षणविरुड्वधर्मसंसर्गस्य प्रत्यक्षसिद्धतया तच दुर्वारत्वादिति चेत् न विरोधस्वरूपानवधारणात् ॥
भा. टी. । वक्ष्यमाणप्रघट्टकार्थादुकप्रघट्टकत्रयस्थार्थ विवेj तत्त्रयार्थानुवादपूर्वकं प्रघट्टकान्तरमवतारयति । स्यादेतदिति । माभूदिति। कुशूलस्थस्थापि बौनत्वेन सामर्थस्यैव साधनादिति भावः । अस्विति । तथा च कुशूलस्थ स्थापि सामर्थमेवेति भावः । कुर्वपत्वाकुर्वट्रपत्वलक्षणविरुद्धधर्माध्यासोऽपि नाचेति वा भावः । भवतु वेति। तथा च क्षेपकारित्वाक्षेपकारित्वलक्षणोऽपि न विरुद्धधर्माध्यास इति भावः । क्रमोऽत्र न विवक्षितः । तथा च पूर्वसाधितार्थानुवादमाचमेतदिति व्युत्क्रमाभिधानदोषो नाच । कखभावत्वं जनकखभावत्वम् । तथापौति । बौजव जात्यवछि किश्चिज्जनयति किञ्चिन्न जनयति तत्र महकारिजाभालाभौ तन्त्रम्(२) म त्वेकैकव्यक्तिः कदाचिन्ननिका कदाचिदजनिकेति
(१) धर्माध्यासः-पा० १ पु.। (२) अनवबोधात्-पा० १ पु० ।
(२) च मास्ताम्-पा० क्वचित् ।
For Private and Personal Use Only