________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्ष गाभवादः
यो ध्रुवाणि परित्यज्य अध्रुवाणि च सेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ इति मर्वप्रकारिकानुपपत्तिरित्यर्थः ॥
भगौ० टी० । वैजात्या पगमे ऽनिष्टान्तरमाह । अपि चेति । प्रयोजकः कारणतावच्छेदकः स्वभावः कुर्वद्रूपत्वं तगोचरोऽन्वयव्यतिरेकगोचरो बोजत्वं न कारणतावच्छेदकं दृश्यं कार्यमङ्कराख्यम् अदृश्येन वैजात्येन दृश्येन बोजत्वेन अदृश्यं कार्यान्तरम् तथा च वैजात्यमपि न मियत दृश्यादृश्ययोः कार्यकारणभावे प्रत्यक्षाभावेऽनुमानस्याप्यभावात् । वृद्धिमिच्छतो मूलमपि नम्वेदित्यर्थः ।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ इति निदर्शनालोकः ।
रघु • टौ । अथाकृत कार्यतदुपादानवदुपादानाविनाभावोऽपि सहकारिणः कल्पयिष्यते तत्राह । अपि चेति ।
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि । इति ।
अथवा व्यतिरेकेण प्रयोगः विवादाध्यासितं बीज सहकारिवैकल्यप्रयुक्ताङ्कुरादिकार्यवैकल्यं तदत्पत्ति
(१) यथ कृप्त इति क्वचित् ।
For Private and Personal Use Only