________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सष्टौके
पत्र बौज निमित्तकारणं तत्कार्यस्यान्यदेव समवाधिकारणमित्यपि नास्ति। सहकारिपत्यासत्तेरनावश्यकत्वात् तदमनिधाने कार्यानुत्पत्तौ बजस्य कार्याव्यभिचाराभावादित्यर्थः ॥
रघु० टी०। उपादेयमप्यमूर्त मूतं वा श्राद्ये अमूर्तस्येति । एतच्च परमतेन तेषां रूपाद्यतिरिक्तस्य द्रव्यस्थाभावाद्रूपादेरेव मूर्तत्वात् । अन्त्ये परिदृश्येति । परिदृश्यमानं परेषामुत्तरोत्तरबोज महकार्यमुपादानमाहित्येन यत् क्रियते । मिथ इति। तथा चोपादानसहकारिणोविरहे ऽपि महकार्यपादानमत्त्वे कार्ययोत्पादे व्यभिचारात् तयोरकारणत्वम् अनुत्पादे च मिटुं समर्थस्थापि सहकारिविरहादकरणमिति । न च ध्वंस एव साधारणं कार्यमिति कार्यातिरिक्रस्य तस्य तवालौकत्वात् कार्यस्य च विवेचितत्वादिति भावः ॥
अपि चैवं सति प्रयोजकस्वभावो नान्वयव्यतिरेकगोचरः तहोचरस्तु न प्रयोजकः दृश्यं च कार्यजातमदृश्येनैव स्वभावेन क्रियते दृश्येन त्वदृश्यमेवेति सोऽयं यो ध्रुवाणौत्यस्य विषयः ॥
शङ्क० टौ । अपि चैवमिति। यदि बोजत्वावच्छेदेनैवातौन्द्रिय कार्य यदि च कुर्वद्रूपत्वमतीन्द्रियमङ्करकारणतावच्छेदकं न तु बोजत्वमित्यर्थः । कारणतावच्छेदकस्य बोजत्वस्य कार्यतावच्छेदकस्याङ्कुरत्वादेः प्रत्यक्षमि त्वमेव ध्रुवत्वं तथा च
For Private and Personal Use Only