________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
यात्मतत्वविवेके सटीक
निश्चयविषयौभूतबीजजातीयत्वात् । यत् पुनः सहकारिवैकल्ाायुक्ताङ्कुरादिकार्यवैकल्यं न भवति न तदेवम्भतबीजजातीयं यथा शिलाशकलमिति ॥
शङ्क० टी० । मोऽयं वादी प्रघट्टकार्थो का प्रथमप्रघट्टकार्थमेव सिंहावलोकितन्यायेन व्यतिरेकमुखेन प्रयोगमारोप्य दर्शयति । अथवेति। पूर्वतन)प्रयोगापेक्षयैव विकल्पः । विवादाध्यामितमिति। चतितबीजभागबाधवारणार्थ सामर्थ्यामामर्थ्याभ्यां कुशजस्थस्य विवादाध्या मितत्वात् । सहकारोति सहकारिवैकन्यप्रयुक्त - मङ्करादिरूपकार्यवैकल्यं यस्येति बहुव्रीहिः प्रयुक्त परिपालितं तदुत्तरकालसम्बद्धौलतं कार्यवैकल्यं कार्यप्रागभावः दण्डादीनामपि निमित्तकारणानां कथञ्चित् कार्यप्रागभावनिरूपणात्। साध्ये ऽङ्करपदप्रक्षेपात् साधने ऽपि बीजजातीयवादित्य मामान्यव्याप्तौ तु नोभयत्रापि विशेषोपादानम् । तदुत्पत्तिनिश्चयः कार्यकारणभावनिश्चयः । पुनःपदं भवतिपदं च स्फुटार्थम् ॥
भगी. टौ । सामग्रीमध्यवर्तिनि बौजे बाधो माभूदिति विवादाध्यामितं विशेषणमित्ये के। मामग्रीमध्यनिवेशात प्राक तत्रापि सत्त्वान्न तत्र बाधो न वाच्यमित्येकव्यभिचारोऽत विवादाध्यामितबीजयोः प्रत्येकमेव पक्षत्वं विवादस्य नानारूपत्वेऽपि प्रकरणाबियम इत्यन्ये । महकारोति। महकारिममवधाना
(१) पूर्वप्रयोगा-पा० १ । ३ यु० ।
For Private and Personal Use Only