________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक सटीक
कथायां प्रत्यक्षमप्यनुमानच्छाययैव प्रयोतव्यमित्याह। प्रति। परेरिति। नैयायिकस्यापसिद्धान्तनिरासाय व्यापकेति । बोजत्वं प्रत्यकुरप्रयोजकत्वस्य व्यापकत्वात् तस्यानुपलब्धिरङ्कराप्रयोजकत्वोपलब्धिरित्यर्थः । ननु कुशमस्थबोजस्याङ्कराप्रयोजकल खनोमिद्धमित्यत आह। प्रमोति। स्वमते तु यदीदमङ्कुरं प्रत्यप्रयोजक स्थाहौजजातीयं न स्यादिति प्रसङ्गाय वक्रव्यो हेतुरित्यर्थः ॥
रघु० टी० । तदुत्पत्तिस्तस्मादुत्पत्तिः। कार्यकारणभावः । प्रत्यक्षं कारणान्वये कार्यस्य प्रत्यक्षम् अनुपलम्भश्च कारणव्यतिरेके कार्यव्यतिरेकस्योपलम्भः । तथा चान्वयव्यतिरेकग्रइमनीचीनस्य प्रत्यवस्येत्यर्थः। पररीत्यैव परं प्रति सतर्कन्यायप्रयोगमाह । यदङ्करमित्यादि। परैः मौगतैः । व्यापकस्य वीजत्वस्याङ्करप्रयोजकत्वस्थानुपलधिरनुपलब्धिविषयोऽभावः । प्रसङ्ग हेतुः प्रसङ्गस्य प्रसन्नको वा हेतुः ।।
विपर्यये ऽपि किं बाधकमिति चेत् अङ्करस्य जातिप्रतिनियमाकस्मिकत्वप्रसङ्ग इत्युक्तं बोजत्वं तस्य प्रत्यक्षसिद्धमशक्यापहवमिति चेदस्तु तर्हि विपर्ययः। यद्दोज तदङ्करं प्रति प्रयोजकं यथान्त्यसामग्रीमध्यमध्यासीनं बीजं बीजं चेदं विवादास्पदमिति) स्वभावहेतुः॥
शङ्क० टी० । विपर्यय इति। अङ्कुराप्रयोजकमपि बीज म्यादित्यत्र किं बाधकमित्यर्थः। तर्कमूलव्याप्तौ विपचे बाधकमाह ।
(१) निवादपदं-~-पा० । १० ।
For Private and Personal Use Only