________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
आत्मतत्त्वविवेके सटौके
तस्माद् यो यथाभूतो यथाभूतमात्मनोऽन्वयव्यतिरेकावनुकारयति तस्य तथाभूतस्यैव तथाभूते सामर्थ्यम्। तविशेषास्तु कार्यविशेष प्रयोजयन्ति शल्यादिवदिति युक्तमुत्पश्यामः ॥
शङ्क. टी.। बौजवेनैव कारणता अङ्करत्वेन च कार्यतेत्यवश्यमभ्युपगन्तव्यमित्युपसंहरति । तस्मादिति। बौजे सत्यकुरस्तदभावे तु नाङ्कुर इति बौजमङ्कुरत्वावच्छिन्नमेव कार्य प्रत्यन्ववव्यतिरेकावनुकारयति दृष्टवादित्यर्थः ॥
भगौ• टौ। तच्छङ्का तु भ्रमादावपि कार्यकारणभावास्कन्दिनौ न दोषायेत्याह। तस्मादिति ॥
रघु० टौ। कारणाकारणे तु सहकारिसाकल्यवैकल्याभ्यामेवोपपन्ने अन्यथा सहकारिसमवहितबोजत्वेनापि जनकत्वस्य सुवचत्वादित्याशयवानुपसंहरति। तस्मादिति ॥
कस्य पुनः प्रमाणस्यायं व्यापारकलाप इति चेत् तदुत्पत्तिनिश्चयहेतोः प्रत्यक्षानुपलम्भात्मकस्येति ब्रूमः। अथ न्यायेन विना न ते परितोषः शृणु तमपि । तदा यदरं प्रत्यप्रयोजकं न तहौजजातीयं यथा शिलाशकलम् अङ्गुरं प्रत्यप्रयोजकं च कुशूलनिहितं बौजमभ्युपेतं परैरिति व्यापकानुपलब्धिः प्रसङ्गहेतुः ॥
For Private and Personal Use Only