________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः
४३
रङ्करकुर्वट्रपत्वस्य बोजत्वव्याप्यत्वेनाभ्युपपन्ना(१) न बीजप्रयोजकत्वे मानं शालित्वव्यभिचारित्वे ऽपि तस्य बोजत्वव्यभिचारस्थादर्शनात् । बौजवैकार्थसमवेतविशिष्टादकरोत्पत्तिरित्याह। अशालिवदिति। बीजवैकार्थममवाये यदि बीज विशेषणं तदा तस्य प्रयोजकत्वापात इति तस्योपलक्षणत्वं वाच्यम् तच्च तदवच्छेदकैकरूपाभावादयुकमित्यबीजादपि तदुत्पत्तिप्रमङ्ग इत्याह । मलित्वेति । तस्मादनन्यथामिद्धान्वयव्यतिरेकानुविधायितया बोजत्वमेवारजनने प्रयोजकम्। न च वैजायेन तदन्यथासिद्धिः तस्या मिद्धेः ॥
रघु. टी. । बोजत्वेनाजनकत्वे ऽपि बीजमात्रवृत्तिना कुर्वट्रपत्वेन जनकत्वादापादकामिद्धिमाशते । वौजस्येति । वौजस्य विशेषः बीजैकदेशवृत्तिजातिः। शान्येकदेशवृत्तेः शालित्वव्यभिचारवहौजैकदेशवृत्तेरपि जातेोजत्वव्यभिचारित्वसम्भवान्नाङ्करकुर्वद्रपत्वस्य बीजमात्रवृत्तित्वमित्याशयेनाह। तोति । प्रशालेः शालिभित्रबीजाद्यत्र कुर्वट्रपत्वे वस्तुगत्या बोजत्वैकार्थसमवायस्तत्प्रयोजक किं वा तदिशिष्टमाद्य आह। शालिवेत्यादि । शालित्वैकार्थ समवायवदिति हतीयासमर्थादतिः शालित्वैकार्थसमवायेनेत्यर्थः । द्वितीये तु प्रत्यवसिद्धत्वालाघवादिशिष्टस्य प्रयोजकत्वे विशेषणस्थापि तथावेनावश्यकत्वाविशेषणविशेष्यभावे विनिगमकाभावाच्च शुद्धं बोजत्वमेव प्रयोजकमस्तु ।
(१) व्याप्यत्वेनाप्यपपन्ना-इति क्वचित् ।
For Private and Personal Use Only