________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
यात्मतत्त्वविवेके सटीके
याञ्च जातेस्तत्मामानाधिकरण्याभावस्य तजातिममानाधिकरणाभावप्रतियोगितात्ममानाधिकरणजातेस्तदभावासामानाधिकरण्याभावस्य तादृशममानाधिकरणधर्मस्य वा तदभावसमानाधिकरणजातिवाभावस्यैव तत्ममानौलनियमानां चावधारणादिति भावः । अथैवं मृत्पाषाणसुवर्णादिघटेषु कथं घटत्वमेका जातिः । न च संस्थानविशेषवृत्त्येव घटत्वं परम्परासम्बन्धेन रूपादिमामानाधिकरण्यबुद्धिस्तादृशसंस्थानवत्त्वमुपाधिर्वा घटत्वमिति वाच्यम् । तत्राप्यन्यतरकर्मजवादिना मार्यण एकजात्यसम्भवात्। गुणगतजातौ तु न साकर्यमिति तु नि?जम् । अत्राहुः सुवर्णत्वादिव्याप्यं नानैव घटत्वं घटपदमपि नानार्थमेव अनुगतव्यवहारस्तु मंस्थानवेजात्याग्रहेणैकजातीयसंस्थानग्रहनिबन्धनः सर्वजनीनानुगतप्रतीतिसिद्धायास्तादृशजातेाप्यं भिनमेवान्यतरकर्मजवादिकं बाधकबलेन जन्यतावच्छेदकभेदेऽप्यदोषात् अन्यतरकर्मजलादिजात्यनङ्गीकारावा । अपरे तु प्रतिनियतपरस्परविरुद्धसंस्थानादिव्यङ्ग्यानां मिथो विरुद्धसामग्रौप्रयोज्यानां जातीनां व्यञकसामग्रौसङ्करामम्भवेन सङ्करो नेव्यते न पुनः प्रमाणे सत्यपि परामाम् अत एवानुद्भूतरूपादिवादिना एक्लपीतशीतोष्णादिमाधारणं प्रत्यक्षत्वप्रयोजकम् उद्भतत्वमनुभूतत्वं च न जातिर्मानाभावात्। शब्दसुखादिव्यात्तस्तु अनुतव्यवहारोऽप्रत्यक्षवनिमित्तकः । अत एव मन्दं सुखमपेक्ष्यानुगतो विभिनजातीयेषु तेषु तेषत्कृष्टत्वव्यवहारो ऽननुभूते सुखे मानाभावेन सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वायोगात् । इत्थं च घमणमहत्चत्वमपेन्य गगनादिमहत्त्वपर्यन्तमुत्कर्षा गगनादिमहत्त्व
For Private and Personal Use Only