________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
५
कुशूलस्थ शालेः सहकार्यभावात् कार्याभाव इति स्थैर्यऽप्यविरोध इति भावः। अभिमतस्य महकारिसमवहितस्य । अतत्त्वप्रसङ्गोऽकुर्वद्रूपत्वप्रमाः ॥
रघु० टी० । स इति । अङ्करसामान्यप्रयोजको बौजमात्रवृत्तिरित्यर्थः । शालित्वस्य सङ्ग्राहको व्यापकः । प्रतिक्षेपको व्यापकीभूताभावप्रतियोगी। एकस्य सङ्ग्राहकत्वप्रतिक्षेपकत्वे वा लधे निरस्ते वान्यस्य मशाह्यत्वं प्रतिक्षेप्यत्वं वा लभ्यते निरम्यते वेति न तदभयं विकल्प्य निराकतम् । न तद्रपवत्त्वं न तजातिविशेषवत्त्वम् । तथा च कृतं तेन बौजत्वसमगौलत्वात्। अभिमतस्याङ्करकारिणः। तस्य जातिविशेषस्य प्रतिक्षेपकं वेति। यद्यप्येकस्याः जातेरपरप्रतिक्षेपकत्वविधिनिषेधयोरपरस्या अपि तत्प्रतिक्षेपकत्वविधिनिषेधावर्थलब्धौ तथापि स्पष्टत्वार्थ विकल्प्य क्रमानुरोधेनैतदभिहितम् । अतत्त्वप्रमङ्गः तज्जातिविशेषशून्यत्वप्रमङ्गः ॥
न च नोभयमपौति वाच्यम् विरोधाविरोधयोः प्रकारान्तराभावात् । व्यक्तिभेदेन सङ्घहप्रतिक्षेपावपिन विरुवाविति() चेत् विलौनमिदानौं तदतज्जातीयताविरोधेन परिदृश्यमानकतिपयव्यक्तिप्रतिक्षेपेऽपि मिथः क्वचित् तुरगविहगयोरपि सम्भेदसम्भवात् ॥
(१) सङ्ग्रह प्रतिक्षेपावविरुद्वाविति-पा. १ पु० ।
For Private and Personal Use Only