________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
स खलु जातिविशेषः शालित्वसंग्राहको" वा स्यात् तत्प्रतिक्षेपको वा । श्रद्ये कुशूलस्थस्यापि शालेः कथं न तद्रूपत्वं (२) द्वितीये त्वभिमतस्यापि शालेः कथं तद्रूपत्वम् । एवं शालित्वमपि तस्य संग्राहकं प्रतिक्षेपकं वा । श्रद्ये शालेतत्त्वप्रसङ्ग :(२) द्वितीये तु शालेरेवातत्त्व
प्रसङ्गः ॥
शङ्क० टौ० । शालित्वमङ्घाहकः शालित्वव्यापकः । तत्प्रतिचेपकस्तद्विरोधौ । कथमिति । तत्राप्यङ्कुरकुर्वद्रूपत्वस्य सत्त्वादित्यर्थः । तद्रूपत्वमिति । कुर्वद्रूपत्व भित्यर्थः । परस्परविरोधादिति भावः । एवमिति । यद्यपि परस्पर प्रतिक्षेपकत्वं विकल्पितमेव तथापि शालित्वं पुरस्कृत्य विकल्प्यत इत्यपौनरुक्त्यम् । श्रद्य इति । अतत्त्वापत्तिरिति । अङ्कुराकुर्वद्रूपत्वापत्तिरित्यर्थः । द्वितीय इति । शालित्वं पुरस्कृत्य (४) कुर्वद्रूपत्वव्यापकले यवादीनामङ्करकारित्वं न स्यादित्यर्थः ॥
भगौ० टी० । शालित्वसङ्घाहकः शालित्वव्यापकः । प्रतिक्षेपकस्तदभावव्याप्यः । तद्रूपत्वं कुर्वद्रूपलम् । तथा च त्वनयेऽपि
(१) शालित्वस्य सङ्ग्राहकः - पा० २ ० |
(२) तद्रूपवत्त्वं - पा० ५ पु० ।
(३) व्यतत्त्वापत्तिः - पा० २ ० । शङ्कर मिश्रसम्मतोऽयम् । (1) शालित्वस्य - पा० ३ ० ।
For Private and Personal Use Only