________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गाबादः ।
शङ्क० टी०। बतौयं हेतुं विषदयति । दृष्टं चेति । खौकिचन्त इत्यनन्तरमनुमन्यामह इति शेषः । तदयमर्थः अन्वयव्यतिरेकविषयौभूतबीजत्वतिरस्कारे स्वस्य भावो धर्मः कुर्वद्र पत्वं तत्कल्पनयैव कार्योपपत्तौ दृष्टत्वात् सहकारिणः खोक्रोयन्त इत्यनुमन्यामहे । इन्द्रियं त्वतौन्द्रियं न कल्पनीयं सहकारिण एव कुतचित् कुर्वट्रपात् कार्योपपत्तेरिति। श्रादिपदात् समनन्तरप्रत्ययादौनां ग्रहणम् । अत एवाह । मानाभावा दिति । अन्यथानुपपत्तिरतौन्द्रियकल्पनायां मानम् सहकारिण एव कस्यचित् कुर्वद्रूपत्वकल्पनायो मा नास्तीत्यर्थः । गोलकादौनामपौन्द्रियत्वे अदृष्टादिविशिष्टं तदतीन्द्रियमेव । अतद्गुणसं विज्ञानबहुनौहिर्वा । चतुर्थं दूषयति । विकल्पेति । त्वदभ्युपगताना विविधानां कल्पानामनुपपत्तेरित्यर्थः ॥
भगो टौ । द्वितीयं प्रसङ्ग विवृणोति। दृष्टं चेति । जातिभेदं बौजत्वम्। तिरस्कृत्याङ्करकारणतानवच्छेदकोकृत्य। यदि स्वभावभेदादेव कार्यजातिनियमस्तर्हि कृतं महकारिखौकारेणेत्यापादिते दृष्टत्वात् सहकारिणः स्वीकौयन्त इति समाधानेऽप्यतीन्द्रियं वदभ्युपगतं न सिहोद् दृष्टादेव कुर्वद्रूपत्वविशिष्टात्तजन्यकार्यापयत्तेरित्याह । सहकारिणोऽपौति ॥
रघु० टौ । जातिभेदं बीजवादिकम् । खौक्रियते भवनिः ।
For Private and Personal Use Only