________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटी के
भगी० टी० । श्राद्यं हेतुं विवृणोति । तथाहौति । जात्यन्तरं कुर्वद्रूपत्वम्। एतच्च स्वदर्शनाभिप्रायेणोक्रम्। परैस्तु जातेयाग्यव्यक्तिवृत्तावप्ययोग्यत्वाभ्युपगमात् तत्तत्कालीन विचित्रकार्यजनकत्वादपि न तत्सिद्धिरन्यथोषपत्तेरित्याह । क्रमवदिति । केन वेति । उपयोगस्यापि प्रमाणवाद गोवृषन्यायेन पृथगुपादानम् । ननु बीजत्वस्य कारणतावच्छेदकत्वसिद्धावपि कुर्वद्रूपत्वाभावः कुत इत्यत श्राह । यो यदर्थमिति । श्रन्यथोपपत्तेरन्यथानुपपत्तिस्तत्कल्पनाबीजं नास्तीत्यर्थः ॥
रघु • टौ० । जात्यन्तरेति । जातेोग्यव्यनिवृत्तितथैव योग्यत्वात् तदभावस्य सुग्रहत्वात् । एतदतीन्द्रियत्व कल्पनायाश्चाप्रामाणिकत्वात् । एवकारबललभ्ये जात्यन्तरवत्त्वानुभवाभावे वा तात्पर्यम् । यद्वच्यति अनुपलभ्यमानजातीति । केन वेति । उपयोगस्यापि प्रमाणत्वात् गोबलीवर्दन्यायेन पृथगुपादानम् ॥
दृष्टं च जातिभेदं तिरस्कृत्य स्वभावभेदकल्पनयैव () कार्योत्पत्तौ (९) सहकारिणोऽपि दृष्टत्वात् कथञ्चत् स्वीक्रियते श्रतीन्द्रियेन्द्रियादिकल्पना तु विलीयेत मानाभावात् विकल्पानुपपत्तेश्च ॥
(१) स्वभावकल्पनयैव - पा० १ ० | (२) कार्योपपत्तौ ---पा० १ प० ।
For Private and Personal Use Only