________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
यात्म- । पिपासादंशमशकविविधरोगादिपरीषदोपसर्गान सोढं न समर्थोऽसि, तस्मादधुना तु प्रबोधः
जवंतं न प्रव्रज्यायै अनुज्ञातुमिलामो वयमिति. ततः कुमारो जगाद हे अंब तात या भवद्भयां संयमस्य पुष्करता दर्शिता सा खलु जीवानां कातराणां कापुरुषाणामिह लोकप्रतिककानां परलोकपराकमुखानां विषयतृष्णावतां विद्यते. न खलु धीरस्य संसारजयोहिमस्येति. तस्मादहं जवदनुयाऽधुनैव प्रवजितुमिगमि. ततस्तौ पुनरूचतुः हे बाल एतावंतं हवं मा कार्षीः त्वं किं जानासि ? तदातिमुक्तकोऽवादीत्. हे अंब तात यदहं जानामि तदेव न जानामि. यच्च न जानामि तदेव जानामि. ततस्ताबूचतुः हे पुत्र कथमेतत् ? सोवीत हे पितरौ जानाम्यहं यदुन जातेनावश्यं मत्तव्यं, परं न जानामि कदा वा कस्मिन वा कयं वा कियच्चिराहा? तथा न जानामि कैः क मनिरकादिषु जीवा नत्पद्यते, एतत्पुनर्जानामि यत्स्वयं कृतैः कमजिरिति. नतो मा तापितरौ तस्य संयमे स्थिरचित्तं विज्ञाय महातामंवरेण निष्क्रमणमहोत्सवं चातुः,त
For Private and Personal Use Only