________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
॥१०॥
यात्म- | कुद्रेत्यादि, तत्र यद्यपि कुद्रस्तुबः, क्षुद्रः क्रूरः, कुद्रो दरिडः, कुद्रो लघुरित्यनेकार्थवा
| चकः कुद्रशब्दोऽस्ति तथापीह तुहार्थो गृह्यते. तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रस्तुबोऽगंभीर इत्यर्थः, तदिपरीतोऽकुतः, स च सूदामतित्वात्सुखेनैव धर्ममवबुध्यते १. रूपवान् संपूर्णगोपांगतया मनोहराकारः, स च तथाविधरूपसंपन्नः सदाचारप्रवृत्त्यानविकलोकानां धर्मे गौरखमुत्पादयन् प्रभावको भवति. ननु नंदिषेणहरिकेशिवलप्रभृती नां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रीयते? इति चेत्सत्यं, श्ह रूपं द्वविधं सामान्यमतिशायि च. तत्र सामान्यं संपूर्णागत्वादि,तच नंदिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतबेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात् एवमग्रेऽपि. अतिशायि रूपं तु यद्यपि तीर्थकरादीनामेव संभवति, तथापि येन रूपेण कचिद्देशे काले वयसि वा वर्तमानः पुमान रूपवानयमिति जनानां प्रीतिमुपजनयति. तदेवेहाधिकृतं मंतव्यं. ५. प्रकृतिसौम्यः प्रकृत्या स्वभावेन सौम्योऽनीषणाकृति
For Private and Personal Use Only