________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
110011
Acharya Shri Kailassagarsuri Gyanmandir
प्रवोधः
म वर्त्तमानकालोचितस्वार्थधारकस्तीर्थवाहक याचार्य इत्यर्थः छायं च देवर्किंगणिक माश्रमणादिवदाद्यः प्रवचनप्रभावको बोभ्यः, देवर्किंग णिक्षमाश्रम एकथानकं चेदं - एकदा राजगृहनगर्यौ श्रीवर्धमानस्वामिना समवसृतं देवः समवसरणं च रचितं द्वादशापि पर्षदो मिलिताः, सौधर्मेोऽपि समागत्य भगवंतं त्रिःप्रददिणीकृत्य वंदित्वा उचितस्थाने उपविष्टस्तदा जगवता सकल गव्योपकाराय सजलजलधरध्वन्यनुकारिणा स्वरेण परमानंदसुधारसखाविणी निविडतरमोहांधकार विद्राविणी निखिलजगऊंतुचिचमत्कारकारिणी महामनोहारिणी धर्मदेशना प्रदत्ता. ततो देशनांते इंद्रः पब स्वामिन्नस्यामवसर्पिण्यां वदीयं तीर्थ कियत्कालं प्रवर्त्तिष्यते ? कया रीत्या च विच्छेदं यास्यति ? जगवानाह इंड एकविंशतिसहस्रवर्षप्रमाणं दुःखमानामकं पंचमारकं यावन्मे तीर्थ प्रवर्त्तिष्यते ; ततः पंचमारकमांते दिने पूर्वाह्न श्रुत १ सूरि २ धर्म ३ संघा ४ विच्छेदं यास्यति, मध्याह्ने च विमलवाहन नृपसुधर्ममंत्रितऊर्मा विच्छेदं यास्यति, सायाह्ने
For Private and Personal Use Only