________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मल्योतिः परपज्जवहिं असरिस गमेहिं णियमेण णिच्चमविणच्छि / ... सरिसेहि वि वंजणओ, अस्थि ण पुण अस्थपज्जाए // [...] परयायैर्वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायैर्विसदृशगमैर्विजातीयज्ञानग्रानियमेन निश्चयेन नित्यमपि नास्ति तैरपि" सत्वेऽवस्थासंकरप्रसक्तेः, सदृशैरेकज्ञानविषयैस्तु व्यंजनत आयनय"त्रयविषयव्यंजनपर्यायमाश्रित्य - सत्त्वद्रव्यत्वपृथिवीत्वादिसदादिपदंप्रतिपाद्यसामान्यविशेषात्मक स्ति, न'पुनरर्थपर्यायैरन्योन्यव्यावृत्तस्वलक्षणग्राहकर्जुसूत्रादिसंमतैः, सप्तम्येकवचनं तृतीयाबहुवचनार्थपरम् / प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमेऽप्येकान्तवादापत्तिरित्यत आह पच्चुष्पणमि विपज्जयमि भयणागई पडइ / . दव्वं जे एगगुणाई या अणतकप्पा गुणविसेसा // [ . . ] प्रत्युत्पन्ने वर्तमानेऽपि पर्याये भननागति भेदाभेदप्रकारं पतत्यासादयति द्रव्य, यद् यस्मादेकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र 'गुणविशेषाः / ' कल्पशब्दः प्रकारवाची,' तेषां मध्ये 'कमचिंदेव गुणविशेषेण युक्तं तदिति / कृष्णं हि द्रव्यं द्रव्यान्तरेण तुल्यमधिकमूनं वा भवे"अकारान्तराभावात्, आधे सर्वतुल्यत्वे तदेकतापत्तिः, उत्तरयोः संख्येयादिभागगुणवृद्धिहानिभ्यां 'घटस्थानकप्रतिपत्तिरवश्यंभाविनी, तथा च प्रतिनियतहानिवृद्धियुक्तकृष्णादिपर्यायेणं सत्त्वं नान्येति / इत्थं च नोलत्वाद्यवान्तरजातीनामनन्तत्वात्तरतमशब्दमात्रेण तदनुगमस्य कर्तुमशक्यत्वात्, तत्तवान्तरजातीयनीलेतरपीतेतरत्वादिनाऽनन्तकार्यकारणभावापत्तिः,विलक्षणविलक्षणचित्रत्वावच्छिन्ने 'तत्तदवान्तरजातीयनीलोमयत्वादिना हेतुत्वे चाधिकमेव गौरवम् / एतेन चित्रप्रत्यक्षजनकतावच्छेदकमपि चक्षुः संयोगनिष्ठं वैजात्यं स्वीकत्तव्यमित्यपि निरस्तं, विलक्षणचक्षुः संयोगसत्त्वेऽपि सौसादृश्येनावयवनीलद्वयादिगतवैजात्याग्रहेऽवयविनि चित्राप्रत्यक्षादिति द्रष्टव्यम् / अव्याप्यवृत्तिरूपपक्षे ऽप्यवयवगतोत्कृष्टापकृष्टनीलाभ्यामवयविनि तयोरवच्छिन्नयोः सामान्यसामग्रीवशादर्थादमवच्छिन्ननीलस्यापत्तिप्रसंगः, अवयविनीलतरत्वाद्यवच्छिन्न एवावयवनीलतरत्वादिना हेतुत्वे नीलत्वावच्छिन्नस्याकस्मिकत्वप्रसंगः, किमाकस्मिकत्वमिति चेत् , तद्धर्मावच्छिन्नार्थितया प्रवृत्तिविरहः एतत्कारणसत्त्वे नीलत्वावच्छिन्नस्यावश्यमुत्पत्तिरित्यनिश्चयश्च / प्रतीयते च तत्र नीलसामान्यमनवच्छिन्नामवच्छिन्नाश्च तद्विशेषाः, केवलशुक्लेऽपि. स्वल्पबह्ववयवावच्छेदेनेन्द्रियसन्निकर्षेऽणुमहत्वोपेतशुक्लविशेषास्तदनुगतं शुक्लसामान्य च-प्रतीयत इत्येकानेकवर्णविशिष्टद्रव्यपरिणामोपगमं विना न निस्तारः / एतेनाव्याप्यवृत्तिनीलादिकल्पे ताडगनोलादिप्रत्यक्षं प्रति द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रत्यव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं प्रति वा चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धाधारतासन्निकर्षों निरूपकतया विषयनिष्ठो हेतुः संयोगादिप्रत्यक्षस्थले क्लम एवेति नाधिक आ.९ For Private and Personal Use Only