SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [64 --- न च चित्रत्वनिष्ठविषयतया चित्रत्वग्रहे स्वविशेष्यसमवेतसमवेतसमवेतत्वसम्बन्धेनोक्तस्य हेतुत्वे घटावयवगततद्ग्रहाच्छुक्लावयवावच्छेदेन चित्रपटसन्निकर्षेऽपि तद्पचित्रत्वप्रत्यक्षापत्तिरिति वाच्यम्, विशेष्यतया चित्रत्वप्रकारकप्रत्यक्ष एव चरमसमवेतत्वविनिर्मुक्तसम्बन्धेन तद्धेतुत्वात्, न च नीलेतररूपत्वाधवच्छिन्नप्रकारताकग्रहो न हेतुः,नीलत्वपीतत्वादिनाऽवयवगतनीलपीतादिग्रहेऽप्यवयविचित्रप्रत्यक्षादिति वाच्यम् विलक्षणचित्रप्रत्यक्षे तेन तेन रूपेण तत्तदग्रहस्यापि हेतुत्वात् / / . ___वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्वपीतत्वाधनुगमान्न क्षतिरिति चेत्, न, व्यणुकचित्ररूपाग्रहे चतुरणुकचित्रप्रत्यक्षानुपपत्तेः, चित्रावयवारब्धे चित्रग्रहेऽवयवविषयकनीलेतररूपत्वादिव्याप्यचित्रत्वावच्छिन्नप्रकारताकयहस्यैव हेतुत्वात् / यदि च नीलेतररूपपीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसन्निकर्षस्यावयवनीलादिगतनीलत्वादिग्रहप्रतिबन्धकदोषाभावानां च चित्रप्रत्यक्षे हेतुत्वमतस्त्रसरेणुचित्रस्यापि चक्षुषा ग्रह इत्युद्भाव्यते, तदाऽनन्तहेनुहेतुमद्भावकल्पनागौरवाच्चित्रत्वे समानाधिकरणनानारूपग्रहव्यङ्गयत्वकल्पनमेव ज्यायो, नह्येवं गौरवम्, चित्रत्वग्रहे सामानाधिकरण्येन रूपविशिष्टरूपग्रहत्नैव हेतुत्वात् / न चैवमनेकरूपधर्म एव चित्रत्वमित्यागतं नानावयवावच्छिन्नपर्याप्तवृत्तिकस्यैकस्य चित्रस्याप्यनुभवसिद्धत्वात्, अत एवैकावयवावच्छेदेन चित्राभावप्रतीतिरपीत्येकानेकचित्रद्रव्यस्वभावभ्युपगमं विना न काप्युपपत्तिः / किंच नीलेतररूपादिषट्कस्यैव चित्ररूपे हेतुत्वमित्येतावतैव नोपपत्तिरवयवगतेत्कृष्टापकृष्टनीलाभ्यामपि चित्रसंभवात्, ते चोत्कर्षापकर्षा अनन्ता एव, विगतभविष्यद्भिः पर्यायैरिव प्रत्युत्पन्नपर्यायैरपि भेदाभेदौ द्रव्यस्य संमतौ भावितौ तथाहि दन्त्र जहा परिणयं, तहेव अच्छित्ति तमि समयंमि / विगयभविस्सेहि उ, पजएहिं भयणा विभयणाया || ... सन्मति- ] द्रव्यं चेत्समवेतं न वा यथा तदाकारेण तदाकारार्थग्रहणतया वा परिणत तस्मिन् वर्तमानसमये तत्तथैवास्ति, इतिरुक्तिसमाप्त्यर्थः, विगतभविष्यद्विस्तु पर्यायैस्तु भजना कथंचिदेकत्वं, विभजना कथंचिन्नानात्वं, वा शब्दः कथंचिदर्थः, तदेवोपपादयति For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy