SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः कल्पनीयम् , न च नीलकपालिकावच्छेदेन चक्षुःसंनिकर्षस्य तत्समवेतनोलपीतोभयकपालावच्छिन्नत्वनियमात्तदवच्छेदेन सन्निकर्षे पोतादिग्रहापत्तिः, संयोगव्यक्तिर्यद्देशव्यापिनी तत्र परम्परया तद्देश एवावच्छेदको न तु संपूर्णोऽवयव इत्याद्यभ्युपगमादित्यादि निरस्तम्, शाखामूलोभयावच्छिन्नदीर्घतन्तुतरुसंयोगसदृशोभयाद्यवयवाच्छिन्नचित्रादेरपि विलक्षणस्यानुभवसिद्धत्वेनोभयादिपर्याप्तावच्छेदकताकाधिकरणतागर्भसन्निकर्षस्य तत्प्रत्यक्षेऽपि . हेतुत्वाश्रयणावश्यकत्वात् / उपदर्शितसंयोगस्थलेऽप्येकैकावच्छिन्नसंयोगद्वयस्वीकारे च तत्तदवयवावच्छेदेन नानानीलस्यैवासंभवादवयविनि केवलनीलमप्युच्छिद्यते, तथा च यदुक्तं दीधितिकृता-. . "सर्वैश्च नीलैरारब्धेऽवयविनि नीलान्नीलं स्वस्वावच्छेदेन - समुत्पद्यमानं रूपमविरोधायापकमेवोत्पद्यते सजातीयविजातीयेषु नानापदार्थेषु जायमानं समूहालम्बनमिवैकं ज्ञानमिति"तत्सर्वे विलनशीण स्यात् ; घटावच्छेदेन पटज्ञानाननुव्यवसायाद्दार्टान्तिके ऽप्यवच्छेदकभेदेन भेदसिद्धेः, यथादर्शनमंशकात्या॑भ्यां नानैकरूपसंयोगरूपाभ्युपगमे च जितं स्याद्वादिनैव, यत्र परैनियमः- स्वीक्रियते तत्रानियमाभिषेक एव स्याद्वादसाम्राज्यात् / एतेन नानारूपवदवयवारब्धे व्याप्यवृत्तीन्येव नीलपीतादीन्युत्पद्यते नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्वनीलाभावादिकारणत्वकल्पनापेक्षया व्याप्यवृत्तिनीलपीतादिकल्पनाया एव न्याय्यत्वादित्यपि परेषां मतं निरस्तं, नीलकपालावच्छेदेन चक्षुःसन्निकर्षे पीतादेरुपलम्भापत्तेरपि तत्र दोषत्वात् , तदाह संमति. टीकाकारः .. "आश्रयव्यापित्वेऽप्येकावयविसहि तेऽप्यवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात् सर्वरूपाणामाश्रयव्यापित्वादिति” / न च नीलाद्यवयवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनाददोषः, पीतकपालिकावच्छिन्ननीलपीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसंगात्, न च केवलनीलावयवावच्छिन्नसन्निकर्षस्य नीलादिग्राहकत्वकल्पनाददोषः, पीतकपालिकावच्छिन्ननीलपीतोभयकपालावच्छेदेन सन्निकर्षेऽपि नीलग्रहप्रसंगात् / न च केवलनीलावयवावच्छिन्नसन्निकर्षस्य - नीलादिग्राहकत्वं चित्रकपालस्थले तदसंभवात्, न च तत्र नीलकपालिकावच्छिन्नसन्निकर्ष एव ग्राहक इति वाच्यम्, नीलपीतोभयद्वयणुकारब्धत्रसरेणुनीलाप्रत्यक्षापत्तेः, परमाणुसन्निकर्षस्येव परमाण्ववच्छिन्नसन्निकर्ष स्यापि द्रव्याग्राहकत्वेन तद्गतरूपाग्राहकत्वात् / एतेन नीलेतरानवच्छिन्नसन्निकर्षादेनीलादिग्राहकत्वमप्यपास्तम् / यत्वेतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कषालानवच्छिन्नवृत्तिकत्वे सति यत्तन्नीलान्यत् तद्भिन्नं यदेतद्घटसमवेतं तस्यतत्कपालविषयकसाक्षात्कारं प्रत्येतत्कपालावच्छेदेनैतद् For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy