________________
Shri Mahavir Jain Aradhana Kendra
अट्ठाइ
॥ ५ ॥
画卐回卐鳓卐回卐回卐回卐回 5 回卐画卐 回卐回 5 回 1
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतावतान पर्वणि सुश्रावकैः सामायिकं कार्य, सामायिकस्वरुपं चेदं - समता सर्वभूतेषु । संयमः शुभभावना ॥ व्याख्यान आतरौद्रपरियाग – स्तद्धि सामायिकं व्रतं ॥ १ ॥ दिवसे दिवसे लक्खं । देइ सुवण्णस्स खंडियं एगो ॥ एगो पुण सामाइयं । करेइ न पहुप्पए तस्स ॥ २ ॥ आदिपदात्पौषधं कार्य, पौषधफलमिदं - पोसहि य सुहे भावे । असुहाई खवेइ नस्थि संदेहो || छिदइ निरिइतिरियगह । पोसहं विहेइ अप्पमत्तेण ॥ १॥ तत्करणसामर्थ्याभावेऽस्मिन् पर्वणि सुश्रावयथाशक्ति जिनानां द्रव्यपूजा भावपूजा च कर्तव्या, पूजाफलमिदं सयं पमज्जणे पुन्नं । सहस्सं च विलेवणे ॥
साहस्सिया माला । अनंतं गीयवाइए ॥ १ ॥ मनोवाक्कायशुध्ध्याऽत्र पर्वणि पूजास्नात्रादिकं विधेयं, तदवसरे च भगवत: छद्मस्थत्वकेवलित्व सिद्धत्वरूपमवस्थात्रयं भावनीयं, यदुक्तं - हवणचणेहिं छउमत्थ- वत्थपडिहारगेहिं केवलिय || पलियं कुस्सगोहिय । जिणस्स भाविज्जसिद्धतं ॥ १ ॥ द्रव्यपूजासामग्र्यभावे तु भावपूजैव कर्तव्या, सा चेत्थं - प्रातः श्रीजिनगृहं गत्वा शुद्धभावेन भगवद्दर्शनं कार्य, भगवन्मुद्रां विलोक्य च तद्गुणगणस्मरणं विधेयं, तत्फलं यथा— दर्शनाद्दुरितध्वंसी । वंदनावांछितप्रदः ॥ पूजनात्पूरकः श्रीणां । जिनः साक्षात्सुरद्रुमः ॥ १ ॥ पुनः श्रीजिनदर्शनादेव बहूनां भव्यानां बोधिबीजावातिर्भवत्यार्द्र कुमारवत्, तद् वृत्तांतस्त्वित्थं
अस्मिन् भरतक्षेत्रे समुद्रतीरे आर्द्रको नाम यवनदेशोऽस्ति, तत्राईकपुरं नाम नगरं तत्रार्द्रकनामा राजा बभूव, तस्य चार्द्रका नाम्नी पहराज्ञी, तयोरार्द्रकुमारो नाम पुत्रोऽभूत्, स च क्रमेण संप्राप्तयौवनः स्वेच्छया मनोज्ञान् भोगान् भुंजानः सुखेन तिष्टतिस्म, तस्य चार्द्रकराजस्य श्रेणिकराजेन सह परंपरागता परमप्रीतिरभूत्, एकदा श्रेणिको नृपः
For Private and Personal Use Only
॥५॥